SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ उपधा०९ श्रीआचाराङ्गवृत्तिः (शी०) उद्देशकः१ ॥२९९॥ CAMERASARAM प्रकृतीनां बन्धव्यवच्छेदं विधत्ते, ताश्चेमाः-देवगतिस्तदानुपूर्वी पञ्चेन्द्रियजातिक्रियाहारकशरीरतदङ्गोपाङ्गानि तैजसकार्मणशरीरे चतुरस्रसंस्थानं वर्णगन्धरसस्पर्शागुरुलघूपघातपराघाँतोच्छासँप्रशस्तविहायोगैतित्रसंबादरेपर्याप्तकप्रत्येक स्थिरशुभैसुभगसुस्वरादेयनिर्माणतीर्थकरैनामानि चेति, ततोऽपूर्वकरणचरमसमये हास्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः, हास्यादिषट्कस्य तूदयव्यवच्छेदश्च, सर्वकर्मणामप्रशस्तो (णां देशो) पशमनानिधत्तनिकाचनाकरणानि च व्यवच्छिद्यन्ते, तदेवमसंयतसम्यग्दृष्ट्यादिष्वपूर्वकरणान्तेषु सप्त काण्युपशान्तानि लभ्यन्ते, तत ऊर्ध्वमनिवृत्तिकरणं, सच नवमो गुणः, तत्र व्यवस्थित एकविंशतीनां मोहप्रकृतीनामन्तरं कृत्वा नपुंसकवेदमुपशमयति, तदनन्तरं स्त्रीवेदं, ततो हास्यादिसप्तकं (पट), पुनः पुंवेदस्य बन्धोदयव्यवच्छेदः, तत ऊर्ध्वं समयोनावलिकाद्वयेन पुंवेदोपशमः, ततः क्रोधद्वयस्य पुनः सञ्जवलनक्रोधस्यैवं मानत्रिकस्य मायात्रिकस्य च, ततः सज्वलनलोभं सूक्ष्मखण्डानि विधत्ते, तत्करणकालचरमसमये लोभद्वयमुपशमयति, एवं चानिवृत्तिकरणान्ते सप्तविंशतिरुपशान्ता भवति, ततः सूक्ष्मखण्डान्यनुभवन् सूक्ष्मसम्परायो भवति, तदन्ते ज्ञानान्तरायदशकदर्शनावरणचतुष्कयश-कीर्युच्चैर्गोत्राणां बन्धव्यवच्छेदः, तदेवमष्टाविंशतिमोहप्रकृत्युपशमे सत्युपशान्तवीतरागो भवति, स च जघन्यत एक समयमुत्कृष्टतोऽन्तर्मुहूर्त, तत्प्रतिपातश्च भवक्षयेणाद्धाक्षयेण वा स्यात् , स च यथाऽऽरूढो बन्धादिव्यवच्छेदं च यथा कृतवांस्तथैव प्रतिपतन्विधत्ते, कश्चिच्च मिथ्यात्वमपि गच्छेदिति, यस्तु भवक्षयेण प्रतिपतति तस्य प्रथमसमय एव सर्वकरणानि प्रवर्त्तन्ते, एकभव एव कश्चिद् वारद्वयमुपशमं विदध्यादिति । साम्प्रतं क्षपकश्रेणिावर्ण्यते-अस्याश्च मनुष्य एवाष्टवर्षोपरि वर्तमान आरम्भको भवति, स च ॥२९९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy