SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ सुपदेष्वायोज्या, तथा 'धूननं' भिन्नग्रन्थेरनिवर्त्तिकरणेन सम्यक्त्वावस्थानं, तथा 'नाशनं' कर्मप्रकृतेः स्तिबुकसङ्कमेण प्रकृत्यन्तरगमनं, तथा 'विनाशनं शैलेश्यवस्थायां सामस्त्येन काभावापादनं, तथा ध्यापनम्-उपशमश्रेण्या कर्मानुदयलक्षणं विध्यापनं, तथा 'क्षपणम्' अप्रत्याख्यानादिप्रक्रमेण क्षपक श्रेण्यां मोहाद्यभावापादनं, तथा 'शुद्धिकर'मित्यनन्तानुबन्धिक्षयप्रक्रमेण क्षायिकसम्यक्त्वापादनं, तथा 'छेदनम्' उत्तरोत्तरशुभाध्यवसायारोहणास्थितिहासजननं, तथा 'भेदनं' बादरसम्परायावस्थायां सञ्जवलनलोभस्य खण्डशो विधानं, तथा 'फेडणन्ति अपनयनं चतुःस्थानिकादीनामशुभप्रकृतीनां रसतरूयादिस्थानापादनं, तथा 'दहनं' केवलिसमुद्घातध्यानाग्निना वेदनीयस्य भस्मसात्करणं, शेषस्य च दग्धरजुतुल्यत्वापादनं, तथा 'धावनं' शुभाध्यवसायान्मिथ्यात्वपुद्गलानां सम्यक्त्वभावसंजननमिति, एताश्च कर्मणोऽवस्थाः प्रायश उपशमश्रेणिक्षपकश्रेणिकेवलिसमुद्घातशैलेश्यवस्थाप्रकटनेन प्रभूता आविर्भाविता भवन्तीत्यतस्तत्प्रकटनाय प्रक्रम्यते, तत्रोपशमश्रेण्यामादावेवानन्तानुबन्धिनामुपशमना तावत्कथ्यते, इहासंयतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामन्यतरोऽन्यतरयोगे वर्तमान आरम्भको भवति, तत्रापि दर्शनसप्तकमेकेनोपशमयति, तद्यथा-अनन्तानुबन्धिनश्चतुरः, उपरितनलेश्यात्रिके च विशुद्धे साकारोपयोग्यन्तःकोटीकोटीस्थितिसत्कर्मा परिवर्तमानाः शुभप्रकृतीरेव बनन् प्रतिसमयमशुभप्रकृतीनामनुभागमनन्तगुणहान्या हासयन् शुभानां चानन्तगुणवृद्ध्याऽनुभागं व्यवस्थापयन् पल्योपमासङ्ख्येयभागहीनमुत्तरोत्तरं स्थितिबन्धं कुर्वन् करणकालादपि पूर्वमन्तर्मुहूर्त्त विशुध्यमानः करणत्रयं विधत्ते, तच्च प्रत्येकमान्तमौहूर्तिक, तद्यथा-यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं चेति, चतुर्युप Jain Education Inte For Personal & Private Use Only
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy