________________
विमो०८
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशका
॥२९४॥
स्थानान्तरसंक्रमणम् , एतदेव च दर्शयति-तिष्ठेत् सर्वगात्रनिरोधेऽपि, स्थानान्तरासङ्कमणं कुर्यादित्यर्थः, कोऽसौ?'माहणे'त्ति साधुः, स हि निषण्णोपनिषण्ण ऊर्ध्वस्थितो वा निष्प्रतिकायद्यथानिक्षिप्तमङ्गमचेतन इव न चालयेदितियावत् ॥२०॥ एतदेव प्रकारान्तरेण दर्शयितुमाह- .
अचित्तं तु समासज्ज, ठावए तत्थ अप्पगं । वोसिरे सव्वसो कायं, न मे देहे परीसहा ॥ २१ ॥ जावजीवं परीसहा, उवसग्गा इति सङ्ख्या । संवुडे देहभेयाए, इय पन्नेहियासए ॥ २२ ॥ भेउरेसु न रजिजा, कामेसु बहुतरेसुवि । इच्छा लोभं न सेविज्जा, धुववन्नं सपेहिया ॥ २३ ॥ सासएहिं निमन्तिजा, दिव्वमायं न सदहे । तं
पडिबुज्झ माहणे, सव्वं नूमं विहूणिया ॥ २४ ॥ न विद्यते चित्तमस्मिन्नित्यचित्तम्-अचेतनं जीवरहितमित्यर्थः, तच्च स्थण्डिलं फलकादि वा 'समासाद्य' लब्ध्वा फलकेऽपि समर्थः कश्चित्काष्ठे वाऽवष्टभ्य तत्रात्मानं स्थापयेत् , व्यवस्थाप्य च त्यक्तचतुर्विधाहारो मेरुरिव निष्पकम्पः कृतालोचनादिपरिका गुरुभिरनुज्ञातो व्युत्सृजेत् , 'सर्वशः' सर्वात्मना 'कार्य'देहं, व्युत्सृष्टदेहस्य च यदि केचन परीपहोपसगाः स्युस्ततो भावयेत् न मे देहे परीषहाः' मत्सम्बन्धी देह एव न भवति, परित्यक्तत्वात् , तदभावे कुतः। परीषहाः, यदिवा न मम देहे परीपहाः, सम्यक्करणेन सहमानस्य तत्कृतपीडयोद्वेगाभावात् , अतः परीषहान्
॥२९४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org