________________
d-
4
श्रीआचाराङ्गवृत्तिः (शी०)
विमो०८ उद्देशका५
नादिसंसारपर्यटनाद् विरतः सावद्यानुष्ठानात् शोभनाः समाहृता-गृहीता लेश्याः-अन्तःकरणवृत्तयस्तैजसीप्रभृतयो वा येन स सुसमाहृतलेश्यः, एवम्भूतः सन् पूर्वगृहीतप्रतिज्ञापालनासमर्थों ग्लानभावोपगतस्तपसा रोगातड्केन वा प्रतिज्ञालोपमकुर्वन् शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात्, 'तत्रापि' भक्तपरिज्ञायामपि 'तस्य' कालपर्यायेणानागतायामपि कालपर्याय एव निष्पादितशिष्यस्य संलिखितदेहस्य यः कालपर्यायो-मृत्योरवसरोऽत्रापि ग्लानावसरेऽसावेव कालपर्याय इति, कर्मनिर्जराया उभयत्र समानत्वात् , स भिक्षुस्तत्र-ालानतयाऽनशनविधाने व्यन्तिकारकः-कर्मक्षयविधायीति । उद्देशकार्थमुपसञ्जिहीर्षुराह-सर्व पूर्ववद् । विमोक्षाध्ययनस्य पञ्चमोद्देशकः परिसमाप्तः॥
॥२८२॥
BORRRRRRRRRING
उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके ग्लानतया भक्तप्रत्याख्यानमुक्तम् , इह धृतिसंहननादिबलोपेत एकत्वभावनां भावयन्निङ्गितमरणं कुर्यादित्येतत्प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादौ सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
जे भिक्खू एगेण वत्थेण परिसिए पायबिईएण, तस्स णं नो एवं भवइ-बिइयं वत्थं जाइस्सामि, से अहेसणिजं वत्थं जाइजा अहापरिग्गहियं वत्थं धारिजा जाव गिम्हे
॥२८२॥
Jan Education Internal
For Personal & Private Use Only
www.jainelibrary.org