SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ जे भिक्खू तिहिं वत्थेहिं परिपुसिए पायचउत्थेहिं तस्स णं नो एवं भवइ-चउत्थं वत्थं जाइस्सामि, से अहेसणिज्जाइं वत्थाई जाइज्जा अहापरिग्गहियाइं वत्थाई धारिजा, नो धोइज्जा नो धोयरत्ताई वत्थाई धारिजा, अपलिओवमाणे गामंतरेसु ओमचेलिए, एयं खु वत्थधारिस्स सामग्गियं (सू० २११) इह प्रतिमाप्रतिपन्नो जिनकल्पिको वा अच्छिद्रपाणिः, तस्य हि पात्रनिर्योगसमन्वितं पात्रं कल्पत्रयं चायमेवौघोपधि-17 र्भवति नौपग्रहिकः, तत्र शिशिरादौ क्षौमिक कल्पद्वयं सार्द्धहस्तद्वयायामविष्कम्भं तृतीयस्त्वौर्णिकः, स च सत्यपि शीते नापरमाकाङ्कतीत्येतद्दर्शयति-यो भिक्षुः त्रिभिर्वस्त्रैः 'पर्युषितो' व्यवस्थितः, तत्र शीते पतत्येकं क्षौमिकं प्रावृणोति, ततोऽपि शीतासहिष्णुतया द्वितीयं क्षौमिक, पुनरपि अतिशीततया क्षौमिककल्पद्वयोपयौर्णिकमिति, सर्वथौर्णिकस्य बाह्याच्छादनता विधेया, किम्भूतैस्त्रिभिर्वस्वैरिति दर्शयति-पात्रचतुर्थैः पतन्तमाहारं पातीति पात्रं, तब्रहणेन च पात्रनिर्योगः सप्तप्रकारोऽपि गृहीतः, तेन विना तद्हणाभावात् , स चायम्-"पत्तं पत्ताबंधो पायढवणं च पायकेसरिआ । पडलाइ रयत्ताणं च गोच्छओ पायणिजोगो ॥१॥" तदेवं सप्तप्रकारं पात्रं कल्पत्रयं रजोहरणं १ मुखवस्त्रिका २ चेत्येवं द्वादशधोपधिः, स्तस्यैवम्भूतस्य भिक्षोः 'णम्' इति वाक्यालङ्कारे 'नैवं भवति' नायमध्यवसायो भवति, तद्यथा-न ममास्मिन् १ पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेशरिका । पटलानि रजस्नाणं च गोच्छकः पात्र निर्योगः ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy