SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २७४ ॥ इह त्रीणि वयांसि - युवा मध्यमवया वृद्धश्चेति, तत्र मध्यमवयाः परिपक्वबुद्धित्वाद्धर्म्माई इत्यादौ दर्शयति-मध्यमेन वयसाऽप्येके सम्बुध्यमानाः धर्मचरणाय सम्यगुत्थिताः समुत्थिता इति, सत्यपि प्रथमचरमवयसोरुत्थाने यतो बाहुल्यायोग्यत्वाच्च प्रायो विनिवृत्तभोगकुतूहल इति निष्प्रत्यूहधर्म्माधिकारीति मध्यमवयोग्रहणं । कथं सम्बुद्ध्यमानाः समुत्थिता | इत्याह-इह त्रिविधाः सम्बुध्यमानका भवन्ति, तद्यथा - स्वयं बुद्धाः प्रत्येकबुद्धाः बुद्धबोधिताश्च तत्र बुद्धबोधितेनेहाधिकार | इति दर्शयति- 'मेधावी' मर्यादाव्यवस्थितः 'पण्डितानां' तीर्थकृदादीनां 'वचनं' हिताहितप्राप्ति परिहारप्रवर्त्तकं 'श्रुत्वा' आकर्ण्य पूर्व पश्चात् 'निशम्य' अवधार्य समतामालम्बेत, किमिति ? - यतः समतया - माध्यस्थ्येनार्यैः - तीर्थकृद्भिर्धर्मः - श्रुतचारित्राख्यः 'प्रवेदितः' आदौ प्रकर्षेण वा कथित इति, ते च मध्यमे वयसि श्रुत्वा धर्म्म सम्बुध्यमानाः समुत्थिताः सन्तः किं | कुर्युरित्याह- ते निष्क्रान्ताः मोक्षमभि प्रस्थिताः कामभोगानभिकाङ्क्षन्तः तथा प्राणिनोऽनतिपातयन्तः परिग्रहमपरिगृहन्तः, आद्यन्तयोर्ग्रहणे मध्योपादानमपि द्रष्टव्यम्, तथा (तो) मृषावादमवदन्त इत्याद्यपि वाच्यम्, एवम्भूताः स्वदेहेऽप्यममत्वाः 'सव्वावंति 'त्ति सर्वस्मिन्नपि लोके, चः समुच्चये स च भिन्नक्रमः, 'णम्' इति वाक्यालङ्कारे, नो परिग्रहवन्तश्च भवन्तीतियावत् किं च प्राणिनो दण्डयतीति दण्डः परितापकारी तं दण्डं प्राणिषु प्राणिभ्यो वा 'निधाय' क्षिस्वा त्यक्त्वा 'पाप' पापोपादानं 'कर्म्म' अष्टादशभेदभिन्नं तत् 'अकुर्वाणः' अनाचरन्नेषु महान्, न विद्यते ग्रन्थः सबाह्याभ्यन्तरोऽस्येत्यग्रन्थः ' व्याख्यातः' तीर्थकर गणधरादिभिः प्रतिपादित इति । (कश्चैवम्भूतः स्यादित्याह - 'ओजः' अद्वितीयो रागद्वेषरहितः 'द्युतिमान्' संयमो मोक्षो वा तस्य 'खेदज्ञो' निपुणो देवलोकेऽप्युपपातं च्यवनं च ज्ञात्वा सर्वस्थानानि Jain Educational For Personal & Private Use Only विमो० ८ उद्देशकः ३ ॥ २७४ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy