________________
श्रीआचा राङ्गवृत्तिः (शी०)
॥ २६२ ॥
सपरक्कममा सो जह मरणं होइ अज्जवइराणं । पायवगमणं च तहा एयं सपरक्कमं मरणं ॥ २६५ ॥ सह पराक्रमेण वर्त्तत इति सपराक्रमं किं तत् ? - मरणं आदिश्यते इत्यादेशः आचार्यपारम्पर्यश्रुत्यायातो वृद्धवादो यमैतिह्यमाचक्षते, स आदेशो 'यथे' त्युदाहरणोपन्यासार्थः, यथैतत्तथाऽन्यदप्यनया दिशा द्रष्टव्यं, 'आर्यवैरा' वैरस्वामिनो यथा तेषां मरणमभूत् तथा पादपोपगमनं च, एतच्च सपराक्रमं मरणमन्यत्राप्यायोज्यमिति गाथार्थः ॥ भावार्थस्तु कथा - नकादवसेयः, तच्च प्रसिद्धमेव यथाऽऽर्यवैरैर्विस्मृत कर्णाहितशृङ्गबेरैः प्रमादादवगतासन्नमृत्युभिः सपराक्रमैरेव रथावर्त्त - शिखरिणि पादपोपगमनमकारीति । साम्प्रतमपराक्रमं दर्शयितुमाह
अपरक्कममा सो जह मरणं होइ उदहिनामाणं । पाओवगमेऽवि तहा एवं अपरक्कमं मरणं ॥ २६६ ॥ न विद्यते पराक्रमः - सामर्थ्यमस्मिन्नित्यपराक्रमं किं तत् ? - मरणं, तच्च यथा जङ्घाबलपरिक्षीणानामुदधिनाम्नाम् आर्यसमु द्राणां मरणमभूद्, अयमादेशो - दृष्टान्तो वृद्धवादायात इति, पादपोपगमनेऽपि तथैवादेशं जानीयाद् यथा पादपोपगमनेन तेषां मरणमभूदिति, एतद् - अपराक्रमं मरणं यदार्यसमुद्राणां सञ्जातमेवमन्यत्राप्यायोज्यमिति गाथाऽक्षरार्थः ॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम् - आर्यसमुद्रा आचार्याः प्रकृतिकृशा एवासन्, पश्चाच्च तैर्जङ्घावल परिक्षीणैः शरीराल्लाभमनपेक्ष्य तत्तित्यक्षुभिर्गच्छस्थैरेवानशनं विधाय प्रतिश्रयैकदेशे निर्धारिमं पादपोपगमनमकारि ॥ साम्प्रतं व्याघातिममाह
Jain Education International
वाघाइयमाएसो अवरडो हुज्ज अन्नतरएणं । तोसलि महिसीह हओ एवं वाघाइयं मरणं ॥ २६७ ॥ विशेषेणाघातो व्याघातः - सिंहादिकृतः शरीरविनाशस्तेन निर्वृत्तं तत्र वा भवं व्याघातिमं, कश्चित्सिंहाद्यन्यतरेणाप
For Personal & Private Use Only
विमो० ८ उद्देशकः १
॥ २६२ ॥
www.jainelibrary.org