________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥२५७॥
भावाशातनारूपा स्यात्, कथयतो वा यथा गात्रभङ्गरूपा भावाशातना न स्यात् तथा कथयेदिति, तथा नो परं शु- धुता०६ श्रूर्षु आशातयेद्-हीलयेद् , यतः परो हीलनया कुपितः सन्नाहारोपकरणशरीरान्यतरपीडायै प्रवर्त्ततेति, अतस्तदाशातनां वर्जयन धर्म ब्रूयादिति, तथाऽन्यान् वा सामान्येन प्राणिनो भूतान् जीवान् सत्त्वान्नो आशातयेद्-बाधयेत् , त
उद्देशका५ देवं स मुनिः स्वतोऽनाशातकः परैरनाशातयन् तथाऽपरानाशातयतोऽननुमन्यमानो परेषां वध्यमानानां प्राणिनां भूतानां जीवानां सत्त्वानां यथा पीडा नोत्सद्यते तथा धर्म कथयेदिति, तद्यथा-यदि लौकिककुप्रावचनिकपार्श्वस्थादिदानानि प्रशंसति अवटतटागादीनि वा ततः पृथिवीकायादयो व्यापादिता भवेयुः, अथ दूषयति ततोऽपरेषां अ-18 न्तरायापादनेन तत्कृतो बन्धविपाकानुभवः स्यात्, उक्तं च-"जे उदाणं पसंसंति, वहमिच्छंति पाणिणं । जे उणं पडिसेहिंति, वित्तिच्छेअं करिति ते ॥१॥" तस्मात्तद्दानाटतडागादिविधिप्रतिषेधव्युदासेन यथावस्थितं दानं शुद्धं प्ररूपयेत् सावद्यानुष्ठानं चेति, एवं च ब्रुवन्नुभयदोषपरिहारी जन्तूनामाश्वासभूमिर्भवतीति, एतदृष्टान्तद्वारेण दर्श-18 यति-यथाऽसौ द्वीपोऽसन्दीनः शरणं भवत्येवमसावपि महामुनिः तद्रक्षणोपायोपदेशतः वध्यमानानां वधकानां च तदध्यवसायविनिवर्त्तनेन विशिष्टगुणस्थानापादनाच्छरण्यो भवति, तथाहि-यथोद्दिष्टेन कथाविधानेन धर्मकथा कथयन् कांश्चन प्रव्राजयति कांश्चन श्रावकान् विधत्ते कांश्चन सम्यग्दर्शनयुजः करोति, केषाञ्चित्प्रकृतिभद्रकतामापादयति । किंगुणश्चासौ द्वीप इव शरण्यो भवतीत्याह-'एव'मिति वक्ष्यमाणप्रकारेण 'स' शरण्यो महामुनिभोवोत्थानेन ॥२५७॥
१ये तु दानं प्रशंसन्ति वधमिच्छन्ति प्राणिनाम् । ये चैतत् प्रतिषेधयन्ति वृत्तिच्छेदं कुर्वन्ति ते ॥१॥
+
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org