SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ अक्षोभ्योऽधिसहेत नरकादिदुःखभावनयाऽवन्ध्यकम्र्मोदयापादितं पुनरपि मयैवैतत्सोढव्यमित्याकलय्य सम्यक् तितिक्षेतेति । कीदृक्षोऽधिसहेतेत्यत आह, यदिवा स एवम्भूतो न केवलमात्मनस्त्राता सदुपदेशदानतः परेषामपीति दर्शयितुमाह - 'ओजः' एको रागादिविरहात् सम्यग् इतं गतं दर्शनमस्येति समितदर्शनः सम्यग्दृष्टिरित्यर्थः, यदिवा 'शमितम्' उपशमं नीतं 'दर्शनं' दृष्टिर्ज्ञानमस्येति शमितदर्शनः, उपशान्ताध्यवसाय इत्यर्थः, अथवा समतामितंगतं दर्शनं - दृष्टिरस्येति समितदर्शनः, समदृष्टिरित्यर्थः, एवम्भूतः स्पर्शानधिसहेत, यदिवा धर्म्ममाचक्षीतेत्युत्तरक्रियया सह सम्बन्धः, किमभिसन्धाय धर्म्ममाचक्षीतेति दर्शयति- 'दयां' कृपां 'लोकस्य' जन्तुलोकस्योपरि द्रव्यतो ज्ञात्वा क्षेत्रतः प्राचीनं प्रतीचीनं दक्षीणमुदीचीनमपरानपि दिग्विभागानभिसमीक्ष्य सर्वत्र दयां कुर्वन् धर्म्ममाचक्षीत, कालतो यावज्जीवं भावतोऽरक्तोऽद्विष्टः कथमाचक्षीत ? - तद्यथा - सर्वे जन्तवो दुःखद्विषः सुखलिप्सवः आत्मोपमया सदा द्रष्टव्या इति उक्तं च-- " न तत्परस्य संदध्यात्, प्रतिकूलं यदात्मनः । एष सङ्ग्राहिको धर्मः कामादन्यः प्रवर्त्तते ॥ १ ॥ ) इत्यादि, तथा धर्ममाचक्षाणो 'विभजेत्' द्रव्यक्षेत्र कालभावभेदैराक्षेपण्यादिकथाविशेषैर्वा प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरात्रीभोजनविरतिविशेषैर्वा धर्मं विभजेत्, यदिवा कोऽयं पुरुषः कं नतो | देवताविशेषमभिगृहीतोऽनभिगृहीतो वा ? एवं विभजेत्, तथा कीर्त्तयेद्रतानुष्ठानफलं कोऽसौ कीर्त्तयेद् ? - वेदविद्, आ| गमविदिति । नागार्जुनीयास्तु पठन्ति - "जे खलु समणे बहुस्सुए बज्झागमे आहरणहेउकुसले धम्मकहालद्धिसम्पन्ने खेत्तं कालं पुरिसं समासज्ज केऽयं पुरिसे कं वा दरिसणमभिसम्पन्नो ? एवंगुणजाइए पभू धम्मस्स आघवित्तए" इति, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy