________________
श्रीआचा राङ्गवृत्तिः
(शी० )
॥ २३६ ॥
च्यवनावसानेनावेदितोऽपि पुनरपि तद्गरीयस्त्वख्यापनाय प्राणिनां संसारे निर्वेदवैराग्योत्पत्त्यर्थमभिधित्सुकाम आहतं सुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया, तामेव सई असई अइअच्च उच्चावयफासे पडिसंवेएइ, बुद्धेहिं एयं पवेइयं - संति पाणा वासगा रसगा उदए उदएचरा आगासगामिणो पाणा पाणे किलेसंति, पास लोए महब्भयं ( सू० १७७ ) 'तं' कर्म्मविपाकं यथावस्थितं तथैव ममावेदयतः शृणुत यूयं तद्यथा-नारकतिर्यङ्नरामरलक्षणाश्चतस्रो गतयः, तत्र नरकगतौ चत्वारो योनिलक्षाः पञ्चविंशतिकुल कोटिलक्षाः त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः वेदनाश्च परमाधार्मिकपरस्परोदीरितस्वाभाविकदुःखानां नारकाणां या भवन्ति ता वाचामगोचराः, यद्यपि लेशतश्चिकथयिषोरभिधेयविषयं न वागवतरति तथाऽपि कर्म्मविपाकावेदनेन प्राणिनां वैराग्यं यथा स्यादित्येवमर्थं श्लोकैरेव किञ्चिदभिधीयते - “श्रवणलवनं नेत्रोद्धारं करक्रमपाटनं, हृदयदहनं नासाच्छेदं प्रतिक्षणदारुणम् । कटविदहनं तीक्ष्णापात त्रिशूलविभेदनं, दहनवदनैः कङ्केघोरैः समन्तविभक्षणम् ॥ १॥ तीक्ष्णैरसिभिर्दीप्तैः कुन्तैर्विषमैः परश्वधैश्चत्रैः । परशुत्रिशूलमुद्गरतोमरवासीमुषण्ढीभिः ॥ २ ॥ सम्भिन्नतालुशिरस रिछन्नभुजाश्छिन्नकर्णनासौष्ठाः । भिन्नहृदयोदरान्त्रा भिन्नाक्षिपुटाः सुदुःखार्त्ताः ॥ ३ ॥ निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं नैरयिकाः कर्म्मपटलान्धाः ॥ ४ ॥ छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषवीचि (वच्छ )भिः परिवृताः संभक्षणव्यापृतैः । पाठ्यन्ते
Jain Education International
For Personal & Private Use Only
धुता० ६ उद्देशकः१
॥ २३६ ॥
www.jainelibrary.org