________________
श्रीआचाराङ्गवृत्तिः (शी०)
लोक० ५ उद्देशकः६
॥२२९॥
MAGHARIBIFURCACIO
श्रोतांसि-कौनवद्वाराणि तानि च प्रतिभवाभ्यासाद्विषयानुबन्धादीनि गृह्यन्ते, तत ऊर्दू श्रोतांसि-वैमानिका- ङ्गनाऽभिलाषेच्छा वैमानिकसुखनिदानं वा, अधो भवनपतिसुखाभिलाषिता, तिर्यग् व्यन्तरमनुष्यतिर्यग्विषयेच्छा, यदिवा प्रज्ञापकापेक्षयोद्धे गिरिशिखरप्राग्भारनितम्बप्रपातोदकादीनि अधोऽपि श्वधनदीकूलगुहालयनादीनि तिर्यगप्यारामसभाऽऽवसथादीनि प्राणिनां विषयोपभोगस्थानानि विविधमाहितानि-प्रयोगविस्रसाभ्यां स्वकर्मपरिणत्या वा जनितानि व्याहितानि, एतानि च कर्मास्रवद्वाराणीतिकृत्वाश्रोतांसीव स्रोतांसि, एभिश्च त्रिभिः प्रकारैरप्यन्यैश्च पापोपादानहेतुभूतैः 'सङ्गं प्राणिनामासक्तिं कर्मानुषङ्ग वा पश्यत, इतिहेतो, तस्मात्कर्मानुषङ्गात् कारणादेतानि स्रोतांसीत्यतोऽपदिश्यते, आगमेन सदा पराक्रमेथा इति ॥ किं च
आवढं तु पेहाए इत्थ विरमिज वेयवी, विणइत्तु सोयं निक्खम्म एसमहं अकम्मा
जाणइ पासइ पडिलेहाए नावकंखइ इह आगई गई परिन्नाय (सू० १६९) रागद्वेषकषायविषयावर्त्त कर्मबन्धावत वा तुशब्दः पुनःशब्दार्थे भावावर्त पुनरुत्प्रेक्ष्य 'अत्र' अस्मिन् भावावर्ते विषयरूपे 'वेदविद्' आगमविद् 'विरमेद्' आस्रवद्वारनिरोधं विदध्यात्, पाठान्तरं वा “विवेगं किट्टइ वेदवी" आस्रवद्वारनिरोधेन तज्जनितकर्मविवेकम्-अभावं 'कीर्तयति' प्रतिपादयति वेदविदिति । आम्रवद्वारनिरोधेन च यत्स्यात्तदाह-स्रोतः-आस्रवद्वारं तद्विनेतुम्-अपनेतुं निष्क्रम्य' प्रव्रज्य 'एष' इति प्रत्यक्षः प्रस्तुतार्थस्य चावश्यंभावित्वादेष इति
Kा॥२२९।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org