SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २२३ ॥ श्रद्धा- धर्मेच्छा सा विद्यते यस्यासौ श्रद्धावांस्तस्य 'समनुज्ञस्य' संविग्नविहारिभिर्भावितस्य संविग्नादिभिर्वा गुणैः प्रत्रज्यार्हस्य 'संप्रव्रजतः' सम्यक्प्रव्रज्यामभ्युपगच्छतो विचिकित्सा - शङ्का भवेत्, तत्रैतस्य सम्यग्जीवादिपदार्थावधारणाशतस्येदमुपदेष्टव्यम्, यथा - तदेव सत्यं निःशङ्कं यज्जिनैः प्रवेदितमिति, तदेवं प्रव्रज्यावसरे तदेव निःशङ्कं यज्जिनैः प्रवे | दितमित्येवं यथोपदेशं प्रवर्त्तमानस्य प्रवर्द्धमानकण्डकस्य सत उत्तरकालमपि तदधिकता तत्समता तन्यूनता तदभावो वा स्यादित्येवंरूपां विचित्र परिणामतां दर्शयितुमाह-तस्य श्रद्धावतः समनुज्ञस्य संप्रव्रजतस्तदेव निःशङ्कं यज्जिनैः प्रवेदितमित्येतत्सम्यगित्येवं मन्यमानस्य 'एकदा ' इत्युत्तरकालमपि शङ्काकाङ्क्षाविचिकित्सादिरहिततया सम्यगेव भवति-न | तीर्थकर भाषिते शङ्काद्युत्पद्यत इति १ । कस्यचित्तु प्रव्रज्यावसरे श्रद्धानुसारितया सम्यगिति मन्यमानस्य तदुत्तरकालमधीतान्वीक्षिकीकस्य दुर्गृहीतहेतुदृष्टान्तलेशस्य ज्ञेयगहनता व्याकुलितमतेः 'एकदे 'ति मिथ्यात्वांशोदयेऽसम्यगिति भवति, तथाहि - असौ सर्वनयसमूहाभिप्रायतया अनन्तधर्माध्यासितवस्तुप्रसाधने सति मोहादेकनयाभिप्रायेणैकांशसाधनाय प्रक्रमते, यदि नित्यं कथमनित्यमनित्यं चेत्कथं नित्यमिति, परस्परपरिहारलक्षणतयाऽनयोरवस्थानात्, तथाहि - अप्रच्युतानुत्पन्नस्थिरैकस्वभावं हि नित्यम् अतोऽन्यप्रतिक्षणविशरारुरूपमनित्यमित्येवमादिकमसम्यग्भावमुपयाति, न पुनर्वि वेचयति, यथा अनन्तधर्म्माध्यासितं वस्तु सर्वनयसमूहात्मकं च दर्शनमतिगहनं मन्दधियां श्रद्धागम्यमेव न हेतुक्षोभ्यमिति, उक्तं च – “सर्वैर्नयैर्नियतनैगम सङ्ग्रहाद्येरेकैकशो विहिततीर्थिकशासनैर्यत् । निष्ठां गतं बहुविधैर्गमपर्ययैस्ते, श्रद्धेयमेव वचनं न तु हेतुगम्यम् ॥ १ ॥" इत्यादि, यतो हेतुः प्रवर्त्तमानः एकनयाभिप्रायेण प्रवर्त्तते, एकं च धर्म्म Jain Education ional For Personal & Private Use Only लोक० ५ उद्देशकः५ ॥ २२३ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy