SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥२१७॥ यति-एके 'प्राणाः' प्राणिनः 'अपद्रान्ति' प्राणैर्विमुच्यन्ते, अत्र च कर्मबन्धं प्रति विचित्रता, तथाहि-शैलेश्यवस्थायां लोक०५ मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावान्नास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिना उद्देशका४ स्थितिनिमित्तकषायाभावात् सामयिकः, अप्रमत्तयतेर्जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतश्चान्तःकोटीकोटीस्थितिरिति, प्रमत्तस्य त्वनाकुट्टिकयाऽनुपेत्यप्रवृत्तस्य कचित्पाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यतः कर्मबन्ध उत्कृष्टतश्चत प्राक्तन एव विशेषिततरः। स च तेनैव भवेन क्षिप्यत इति सूत्रेणैव दर्शयितुमाह-इह-अस्मिन् लोके-जन्मनि वेदनम्अनुभवनमिहलोकवेदनं तेन वेद्यम्-अनुभवनीयमिहलोकवेदनवेद्यं तत्रापतितमिहलोकवेदनवेद्यापतितं, इदमुक्तं भ-18 वति-प्रमत्तयतिनाऽपि यदकामतः कृतं कर्म कायसङ्घट्टनादिना तदैहिकभवानुबन्धि, तेनैव भवेन क्षप्यमाणत्वाद्, आकुट्टीकृतकर्मणि तु यद्विधेयं तदाह-यत्तु पुनः काकुट्टया कृतम्-आगमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्देन विहितं तत्परिज्ञाय ज्ञपरिज्ञया 'विवेकमेति' विविच्यतेऽनेनेति विवेकः-प्रायश्चित्तं दशविध तस्यान्यतरं भेदमुपैति, तद्विवेकं वा-अभावाख्यमुपैति-तत्करोति येन कर्मणोऽभावो भवति । यथा च कर्मणो विवेको भवति तथा दर्शयितुमाह-एव'मिति वक्ष्यमाणेन प्रकारेण 'से' तस्य कर्मणः साम्परायिकस्य सदा वेदविद् 'अप्रमादेन' प्रमादाभावेन दशविधप्रायश्चित्तान्यतरभेदसम्यगनुष्ठानेन 'विवेकम्' अभावं कीर्तयति 'वेदवित्' तीर्थकरो वेदविद्वा-आगमविद्गणधरश्चतुर्दशपूर्वविद्वेति ॥ किम्भूतः पुनरप्रमादवान् भवतीत्याह ॥२१७॥ से पभूयदंसी पभूयपरिन्नाणे उवसंते समिए सहिए सयाजए, दटुं विप्पडिवेएइ अ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy