SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ A श्रीआचा- राङ्गवृत्तिः (शी०) ॥२१६॥ मदुपदेशवर्त्तिनो मा भवतु, आगमानुसारितया सदा गच्छान्तर्वती भवेत्यर्थः । सुधर्मस्वाम्याह-एतत् पूर्वोक्तं तत् लोक०५ 'कुशलस्य श्रीवर्द्धमानस्वामिनो 'दर्शनम्' अभिप्रायो यथाऽव्यक्तस्यैकचरस्य दोषाः सततमाचार्यसमीपवर्त्तिनश्च गुणा इति । आचार्यसमीपवर्तिना च किं विधेयमित्याह-तस्य-आचार्यस्य दृष्टिस्तदृष्टिस्तया सततं वर्तितव्यं हेयोपादेयार्थेषु, उद्देशका४ | यदिवा तस्मिन् संयमे दृष्टिस्तदृष्टिः, स एव वाऽऽगमो दृष्टिस्तदृष्टिस्तया सर्वकार्येषु व्यवहर्त्तव्यम् , तथा-तेनोक्ता सर्वसङ्गेभ्यो विरतिर्मुक्तिस्तया सदा यतितव्यम्, तथा पुरस्करणं पुरस्कारः-सर्वकार्येष्वग्रतः स्थापनं, तस्य-आचार्यस्य पुरस्कारस्तत्पुरस्कारस्तस्मिन्-तद्विषये यतितव्यम् , तथा तस्य संज्ञा तत्संज्ञा-तज्ज्ञानं तद्वांस्तत्संज्ञी सर्वकार्येषु स्यात्, न स्वमतिविरचनया कार्य विदध्यात्, तथा तस्य-गुरोर्निवेशनं-स्थानं यस्यासौ तन्निवेशनः, सदागुरुकुलवासी स्यादिति भावः । तत्र गुरुकुले निवसन् किम्भूतः स्यादित्याह-यतमानो-यतनया विहरणशीलो विहारी स्यात्, यतमानः प्राण्युपमर्दनमकुर्वन् प्रत्युपेक्षणादिकाः क्रियाः कुर्यादिति, किं च-चित्तम्-आचार्याभिप्रायस्तेन निपतितु-क्रियायां प्रवर्तितुं शीलमस्येति चित्तनिपाती सदा स्यादिति, तथा गुरोः क्वचिद्गतस्य पन्थानं निर्यातुं-प्रलोकितुं शीलमस्येति पथनि-8 यायी, उपलक्षणं चैतत् तेन सुषुप्सोः संस्तारकप्रलोकी बुभुक्षोराहारान्वेषीत्यादिना गुरोराराधकः सदा स्यात्, किं चपरिः-समन्तात् गुरोरवग्रहात् पुरतः पृष्ठतो वाऽवस्थानात्सदाकार्यमृते बाह्यः स्याद्, एतस्माच्च सूत्रात्रयः ईर्योदेशका निर्गता इति । किं च-क्वचित्कार्यादौ गुदिना प्रेषितः सन् दृष्ट्वा प्राणिनो युगमात्रदृष्टिस्तदुपघातं परिहरन् गच्छेत् । किं च का॥२१६॥ से अभिक्कममाणे पडिक्कममाणे संकुचमाणे पसारेमाणे विणिवदृमाणे संपलिज्जमाणे, AAA%95 in Education International For Personal & Private Use Only www.janelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy