SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ लोक०५ उद्देशका४ श्रीआचाराङ्गवृत्तिः दसणं, तट्ठिीए तम्मुत्तीए तप्पुरकारे तस्सन्नी तन्निवेसणे, जयं विहारी चित्तनिवाई (शी०) पंथनिज्झाई पलिवाहिरे, पासिय पाणे गच्छिज्जा (सू० १५७) ॥२१५॥ क्वचित्तपःसंयमानुष्ठानादाववसीदन्तः प्रमादस्खलिता वा गुदिना धर्मेण वचसाऽपि 'एके' अपुष्टधर्माणः अनवगतपरमार्थाः 'उक्ताः' चोदिताः कुप्यन्ति, के ते?-'मानवा' मनुजाः क्रोधवशगा भवन्ति, ब्रुवते च-कथमहमनेनेयतां| साधूनां मध्ये तिरस्कृतः, किं मया कृतम् ?, अथवाऽन्येऽप्येतत्कारिणः सन्त्येव, ममाप्येवम्भूतोऽधिकारोऽभूत्, धिग्मे जीवितमित्यादि, महामोहोदयेन क्रोधतमिस्राच्छादितदृष्टयः उज्झितसमुचिताचारा उभयान्यतराव्यक्ता मीना इव गच्छसमुद्रार्निगत्य विनाशमामुवन्ति, यदिवा वचसाऽपि यथा क इमे लुश्चिताः मलोपहतगात्रयष्टयः प्रगेतनावसर एवास्मा भिर्द्रष्टव्या इत्यादिनोक्ता एके क्रोधान्धाः कुष्यन्ति मानवाः, अपिशब्दात्कायेनापि स्पृष्टाः कुप्यन्ति, कुपिताश्चाधिकरमणादि कुर्वन्तीत्येवमादयो दोषा अव्यक्तैकचर्यायां गुर्वादिनियामकाभावात्प्रादुष्प्युरिति, गुरुसान्निध्ये चैवम्भूत उपदेशः सम्भवेत् , तद्यथा-"आक्रुष्टेन मतिमता तत्त्वार्थान्वेषणे मतिः कार्या । यदि सत्यं कः कोपः? स्यादनृतं किं नु कोपेन ? ॥१॥" तथा "अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते? | धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ॥२॥"इत्यादि, किं पुनः कारणं वचसाऽप्यभिहिता ऐहिकामुष्मिकापकारकारिणः स्वपरबाधकस्य क्रोधस्यावकाशं ददतीत्याह-उन्नतो मानोऽस्येत्युन्नतमानः, उन्नतं वाऽऽत्मानं मन्यत इति, स चैवम्भूतो 'नरों' मनुष्यो महता मोहेन-प्रबलमोहनीयोदयेन ॥२१५॥ Jan Education Interaoral For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy