SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २१४ ॥ करुणापन्ना गृहस्थाः प्रतिजागरणं कुर्युस्तर्ह्यज्ञानतया पट्कायोपमर्दनं कुर्वाणाः संयमबाधामापादयेयुः, अथ न कश्चित्तत्र तथाभूतः कर्त्तव्योद्यतः स्यात् तत आत्मविराधना, तथाऽतिसारादौ मूत्रपुरीषजम्बालान्तर्वर्त्तित्वात् प्रवचनहीलना, अपि च-ग्रामादिव्यवस्थितः सन् धिग्जात्यादिना केशलुञ्चिताद्यधिक्षेपेणाधिक्षिप्तः सन् परस्परोपमर्दकारि दण्डादण्डि भण्डनं विदध्यात्, तच्च गच्छगतस्य न सम्भवति, गुर्वाद्युपदेशसम्भवात्, तदुक्तं च - " अक्को सहणणमारणधम्म भंसाण बालसुलभाणं । लाभं मण्णइ धीरो जहुत्तराणं अभावमि ॥ १ ॥" इत्येवमादिनोपदेशेन गच्छान्तर्गतो गुरुणाऽनुशास्यते, गच्छनिर्गतस्य पुनर्दोषा एव केवला इति, उक्तं च - " साहंमिएहिं संमुज्जएहिं एगागिओ अ जो विहरे । आयंकपउरयाए छक्कायवहंमि आवडइ ॥ १ ॥ ऍगागिअस्स दोसा इत्थी साणे तहेव पडिणीए । भिक्खऽविसोहि महव्वय तम्हा सबिइज्जए गमणं ॥ २ ॥" इत्यादि, गच्छान्तर्वर्त्तिनस्तु बहवो गुणाः, तन्निश्रया अपरस्यापि बालवृद्धादेरुद्यतविहाराभ्युपगमात्, यथाहि उदके समर्थस्तरन्नपरमपि काष्ठादि विलग्नं तारयति, एवं गच्छेऽप्युद्यतविहार्यपरं सीदन्तमुद्यमयति, तदेवमेकाकिनो दोषान् वीक्ष्य गच्छान्तर्विहारिणश्च गुणान् कारणाभावे व्यक्तेनापि नैकचर्या विधेया, कुतः पुनरव्यक्तेनेति स्थितं । ननु च सति सम्भवे प्रतिषेधो युक्तो, न चास्ति सम्भवः एकाकिविहारितायाः, को हि नाम बालिशः सहायान् विहाय समस्तापायास्पदमेका किविहारितामभ्युपेयादिति, अत्रोच्यते, न किञ्चिदपि कर्म्मपरिणतेरशक्यमस्ति, तथाहि १ आक्रोशवधमारणधर्म अंशानां बालसुलभानाम् । लाभं मन्यते धीरः यथोत्तराणामभावे ॥ १ ॥ २ साधर्मिकेषु सम्यगुद्यतेषु एकाकी च यो विहरेत् । आतङ्कप्रचुरतायां षट्टायवधे स पतति ॥ १ ॥ ३ एकाकिनो दोषाः स्त्री श्वा तथैव प्रत्यनीकः । भिक्षाऽविशोधिः महाव्रतेषु तस्मात्सद्वितीयेन गमनम् ॥ २ ॥ Jain Education International For Personal & Private Use Only लोक० ५ उद्देशकः४ ॥ २१४ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy