SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ स्यादित्याह-'स' जितेन्द्रियो, हुरवधारणे, स एवैक:-अद्वितीयो 'मुनिः' जगत्रयमन्ता 'संविद्धपथः' सम्यग्विद्धःताडितः क्षुण्णः पन्थाः-मोक्षमार्गो ज्ञानदर्शनचारित्राख्यो येन स तथा, 'संविद्धभयेत्ति वा पाठः, संविद्धभयो दृष्टभय इत्यर्थः, यो ह्यास्रवद्वारेभ्यो हिंसादिभ्यो निवृत्तः स एव मुनिः क्षुण्णमोक्षमार्ग इति भावार्थः । किं च-अन्येन प्रकारेणान्यथा-विषयकषायाभिभूतं हिंसादिकर्मसु प्रवृत्तं 'लोक' गृहस्थलोकं पाखण्डिलोकं वा पचनपाचनौद्देशिकसच्चित्ताहारादिप्रवृत्तमुप्रेक्षमाणोऽन्यथा वा आत्मानं निवृत्ताशुभव्यापारमुप्रेक्षमाणः संविद्धपथो मुनिः स्यात् इति । लोकं चान्यथोप्रेक्ष्य किं कुर्यादित्याह-'इति' पूर्वोक्तैहेतुभिर्यद्बद्धं कर्म तदुपादानं च सर्वतः परिज्ञाय ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञयाऽपि सर्वतः परिहरेत् । कथं परिहरतीत्याह-'स' कर्मपरिहर्ता कायवाङ्मनोभिन हिनस्ति जन्तून् न घातयत्यपरै प्यनुमन्यते । किं च-पापोपादानप्रवृत्तमात्मानं संयमयति, सप्तदशप्रकारं वा संयम करोति संयमयति, आचारक्तिबन्तं वैतत् संयम इवाचरति संयमयति । किं च-'नो पगब्भई' 'गल्भ धार्थे' असंयमकर्मसु प्रवृत्तः सन् न प्रगल्भत्वमायाति, रहस्यप्यकार्यप्रवृत्तो जिहेति न धृष्टतां अवलम्बत इति, उपलक्षणार्थत्वादस्य क्षुण्णमोक्षपथो मुनिन क्रुध्यति, न जात्यादिमानमुदहति, न वञ्चनां विधत्ते, न लुभ्यति । किमाकलय्यतत्कुर्यादित्याह-'उत्प्रेक्षमाणः' अवगच्छन् प्रत्येक प्राणिनां सातं मनोऽनुकूलं नान्यसुखेनान्यः सुखीति नापि परदुःखेन दुःखीत्यतः प्राणिनो न हिंस्यादिति । प्राणिनां प्रत्येकं सातमुत्प्रेक्षमाणश्च किं कुर्यादित्याह-वर्ण्यते-प्रशस्यते येन स वर्णः-साधुकारस्तदादेशी वर्णादेशी-वर्णाभिलाषी सन् नारभते कश्चन पापारम्भं सर्वस्मिन्नपि लोके, यदिवा-तपःसंयमादिकमप्यारम्भं यशःकीर्त्यर्थं नारभते, प्रवचनो Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy