________________
लोक०५
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशकः३
॥२१॥
'एतद्' यदुत्थाननिपातादिकं प्रागुपन्यस्तं तत्केवलज्ञानावलोकनेन 'नियाय'त्ति ज्ञात्वा 'मुनिना' तीर्थकृता 'प्रवेदितं' कथितम् । इदं चान्यत्प्रवेदितमित्याह-'इह' अस्मिन् मौनीन्द्रे प्रवचने व्यवस्थितः सन् 'आज्ञां' तीर्थकरोपदेशमाकानितुं शीलमस्येत्याज्ञाकानी-आगमानुसारप्रवृत्तिकः, कश्चैवम्भूतः?-पण्डितः' सदसद्विवेकज्ञः 'अस्निहा' स्नेहरहितः । रागद्वेषविप्रमुक्तोऽहर्निशं गुरुनिर्देशवी यत्नवान् स्यादित्येतदाह-पूर्वरात्रं-रात्रेः प्रथमो यामोऽपररात्रं-रात्रेः पाश्चात्यः एतद्यामद्वयमपि 'यतमानः' सदाचारमाचरेत् , मध्यवर्तियामद्वयमपि यथोक्तविधिना स्वपन् वैरात्रादिकं विदध्यात्, रात्रियतनाप्रतिपादनेन चायपि प्रतिपादितैव भवति, आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वात् । किं च-'सदा' सर्वकालं 'शीलम्' अष्टादशभेदसहस्रसङ्ख्यं संयम वा यदिवा चतुओं शीलं-महाव्रतसमाधानं तिस्रो गुप्तयः पञ्चेन्द्रियदमः कषायनिग्रहश्चेत्येतच्छीलं सम्प्रेक्ष्य मोक्षाङ्गतयाऽनुपालयेत् नाक्षिनिमेषमात्रमपि कालं प्रमादवशगो भूयात् । कश्च शीलसम्प्रेक्षकः स्यादित्याह-यो हि श्रुत्वा शीलसम्प्रेक्षणफलं निःशीलनिव्रतानां च नरकादिपातविपाकमाकागमात्, |'भवेत्' स्यात् 'अकाम' इच्छामदनकामरहित इति, तथा नास्य 'झञ्झा' माया लोभेच्छा वा विद्यत इत्यझञ्झः, काम-I झञ्झाप्रतिषेधाच्च मोहनीयोदयः प्रतिषिद्धः, तत्प्रतिषेधाच्च शीलवान् स्यादिति, एतदुक्तं भवति-धर्म श्रुत्वा स्यात् अकामोऽझञ्झश्चेत्यनेन चोत्तरगुणा गृहीताः, उपलक्षणार्थत्वाच्च मूलगुणा अपि गृहीताः, ततः स्यात् अहिंसकः सत्यवादीत्याद्यपि द्रष्टव्यं । ननु चान्यज्जीवाच्छरीरमित्येवंभावनायुक्तस्यानिगृहितबलवीर्यस्य पराक्रममाणस्याष्टादशशीलाङ्गसहस्रधारिणोऽपि मे यथोपदेशं प्रवर्त्तमानस्यापि नाशेषकर्ममलापगमोऽद्यापि भवतीत्यतस्तथाभूतमसाधारणकारणमाचक्ष्व
॥२१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org