________________
श्रीआचाराङ्गवृत्तिः
(शी०) ॥ २०३ ॥
इत्यादि, 'स' विषयगृधुरिन्द्रियानुकूलवत्कचर्याप्रतिपन्नस्तीर्थिको गृहस्थो वा परैः परिभूयमानो बहुः क्रोधोऽस्येति बहुक्रोधः, तथा वन्द्यमानो मानमुद्वहत इति बहुमानः, तथा कुरुकुचादिभिः कल्कतपसा च बहुमायी, सर्वमेतदाहारादिलोभात्करोतीत्यतो बहुलोभः, यत एवमतो बहुरजाः - बहुपापो बहुषु वाऽऽरम्भादिषु रतो बहुरतः, तथा नटवद्भोगार्थे बहून् वेषान् विधत्त इति बहुनटः, तथा बहुभिः प्रकारैः शठो बहुशठः, तथा बहवः सङ्कल्पाः - कर्त्तव्याध्यवसाया यस्य स बहुसङ्कल्पः, इत्येवमन्येषामपि चौरादीनामेकचर्या वाच्येति, स एवम्भूतः किमवस्थः स्यादित्याह - ' आसव' इत्यादि, आस्रवाः - हिंसादयस्तेषु सक्तं - सङ्कं आश्रवसक्तं तद्विद्यते यस्यासावाश्रवसक्ती - हिंसाद्यनुषङ्गवान् पलितं-कर्म्म तेनाव|च्छन्नः, कर्मावष्टब्ध इतियावत् स चैवम्भूतोऽपि किं ब्रूयादित्याह – 'उट्ठिय' इत्यादि, धर्म्मचरणायोद्युक्तः उत्थितस्तद्वाद उत्थितवादस्तं प्रवदन्, तीर्थिकोऽप्येवमाह - यथा अहमपि प्रव्रजितो धर्म्मचरणायोद्यत इत्येवं प्रवदन् कर्म्मणाऽवच्छाद्यत इति । स चोत्थितवादी आस्रवेषु प्रवर्त्तमानः आजीविकाभयात् कथं प्रवर्त्तत इत्याह-'मा मे' इत्यादि, मा मां 'केचन' अन्येऽद्राक्षुरवद्यकारिणमित्यतः प्रच्छन्नमकार्यं विदधाति एतच्चाज्ञानदोषेण प्रमाददोषेण वा विधत्त इति । किं च - 'सयय 'मित्यादि, 'सततम्' अनवरतं मूढो मोहनीयोदयादज्ञानाद्वा 'धर्म' श्रुतचारित्राख्यं नाभिजानाति, न वि वेचयतीत्यर्थः । यद्येवं ततः किमित्याह - 'अट्टा' इत्यादि, आर्त्ता विषायकषायैः 'प्रजायन्त' इति प्रजाः - जन्तवः हे मानव !, मनुजस्यैवोपदेशार्हत्वान्मानवग्रहणं, 'कर्म्मणि' अष्टप्रकारे बिर्भत्सिते 'कोविदाः' कुशलाः, न धम्र्मानुष्ठान इति, के ते ये सततं धर्मं नाभिजानन्ति कर्म्मबन्धकोविदाश्चेति ?, अत आह— 'जे अणुवरया' इत्यादि, ये केचनानि
पुनः
Jain Education International
For Personal & Private Use Only
लोक० ५
उद्देशकः १
॥ २०३ ॥
www.jainelibrary.org