________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥२०२॥
त्यर्थमेकचर्या विदधे, अतोऽप्रशस्ता, एवमनया दिशाऽन्येऽप्यप्रशस्तैकचर्याश्रिता दृष्टान्ता यथासम्भवमायोज्या इति । लोक०५ तदेवं सूत्रार्थे व्याख्याते सूत्रस्पर्शिकनियुक्त्या नियुक्तिकारो व्याचिख्यासुराह। चारो चरिया चरणं एगढ़ वंजणं तहिं छकं । दव्वं तु दारुसंकम जलथलचाराइयं बहुहा ॥ २४६ ॥
उद्देशका __'चार' इति'चर गतिभक्षणयोः' भावे घञ्, चर्येति 'गदमदचरयमश्चानुपसर्गे' (पा०३-१-१००) इत्यनेन कर्मणि भावे वा यत् , चरणमिति वा, भावे ल्युत्, एकः-अभिन्नोऽर्थोऽस्येत्येकार्थ, किं तत् ?-व्यञ्जनं' व्यज्यते-आविष्क्रियतेऽर्थोऽनेनेति व्यञ्जनं-शब्द इत्येतत्पूर्वोक्तं शब्दत्रयमेकार्थ, एकार्थत्वाच्च न पृथग् निक्षेपः, 'तत्र' चारनिक्षेपे पटूं, चारस्य षट्प्रकारो निक्षेप इत्यर्थः, तद्यथा-नामस्थापनेत्यादि, तत्र सुगमत्वान्नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यचारं गाथाशकलेन दर्शयति-'दब्वं तु' त्ति तुशब्दः पुनःशब्दार्थे द्रव्यं पुनरेवम्भूतं भवति, दारुसङ्क्रमश्च जलस्थलचारश्च दारुसमजलस्थलचारौ तावादी यस्य तदारुसमजलस्थलचारादिकं 'बहुधा' अनेकधा, तत्र दारुसङ्क्रमो जले सेत्वादिः। क्रियते, स्थले वा गर्तलङ्घनादिकः, जलचारो नावादिना, स्थलचारो रथादिना, आदिग्रहणात् प्रासादादौ सोपानप-|| कथादिरिति, यद्यद्देशाद्देशान्तरावाप्तये द्रव्यं स स द्रव्यचार इति गाथार्थः॥ साम्प्रतं क्षेत्रादिकमाह
खित्तं तु जंमि खित्ते कालो काले जहिं भवे चारो। भावंमि नाणदंसणचरणं तु पसत्थमपसत्थं ॥२४७॥ | क्षेत्रं पुनर्यस्मिन् क्षेत्रे चारः क्रियते यावद्वा क्षेत्रं चर्यते स क्षेत्रचारः, कालस्तु यस्मिन् काले चरति यावन्तं वा कालं ॥२०२॥ स कालचारः, भावे तु द्विधा चरणं-प्रशस्तमप्रशस्तं च, तत्र प्रशस्तं ज्ञानदर्शनचरणानि, अतोऽन्यदप्रशस्तं गृहस्थान्य
मजलस्थलचारात
लहनादिका,
तथादिरिति.
BASAHES
dain Education International
For Personal & Private Use Only
www.jainelibrary.org.