________________
-OSASTROUSSSSSSSS
यादिति मोहमोहितो विपर्यासमुपैति-यदेव प्राण्युपघातादि दुःखोसादने कारणं तदुपशमाय तदेव विदधातीति । किं च –'मोहेण'इत्यादि, 'मोह' अज्ञानं मोहनीयं वा मिथ्यात्वकषायविषयाभिलाषमयं तेन मोहेन मोहितः सन् कर्म बन्नाति, तेन च गर्भमवामोति, ततोऽपि जन्म पुनर्बालकुमारयौवनादिवयोविशेषाः, पुनर्विषयकषायादिना कर्मोपादायायुषः क्षयात् मरणमवाप्नोति, आदिग्रहणात्पुनर्गमित्यादि, नरकादियातनास्थानमेतीत्यतोऽभिधीयते-'एत्थ'इत्यादि, 'अत्र' अस्मिन्ननन्तरोक्ते 'मोहे' मोहकार्ये गर्भमरणादिके पौनःपुन्येनानादिकमपर्यन्तं चतुर्गतिक संसारकान्तारं पर्यटति, नास्मादपैतीतियावत्, कथं पुनः संसारे न बम्धम्यात्?, तदुच्यते-मिथ्यात्वकषायविषयाभिलाषाभावाद्, असावेव कुतो?, विशिष्टज्ञानोत्सत्तेः?, सैव कुतो?, मोहाभावात् , यद्येवमितरेतराश्रयत्वं, तथाहि-मोहोऽज्ञानं मोहनीयं वा, तदभावो विशिष्टज्ञानोत्पत्तेः, साऽपि तदभावादिति भणता स्पष्टमेव इतरेतराश्रयत्वमुक्तं, ततश्च न यावद्विशिष्टज्ञानोसत्तिः संवृत्ता न तावत्कर्मशमनाय प्रवृत्तिः स्यात् , नैष दोषः, अर्थसंशयेनापि प्रवृत्तिदर्शनादिति । आह च। संसयं परिआणओ संसारे परिन्नाए भवइ, संसयं अपरियाणओ संसारे अपरि
नाए भवइ (सू० १४३) 'संसय मित्यादि, संशीतिः संशयः-उभयांशावलम्बा प्रतीतिः संशयः, स चार्थसंशयोऽनर्थसंशयश्च, इह चार्थों मोक्षो मोक्षोपायश्च, तत्र मोक्षे न संशयोऽस्ति, परमपदमितिप्रतिपादनात्, तदुपाये तु संशयेऽपि प्रवृत्तिर्भवत्येव, अर्थसंश
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org