________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १८५ ॥
हंतव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, अणारियवयणमेयं, वयं पुण एवमाइक्खामो एवं भासामो एवं परूवेमो एवं पण्णवेमो- सव्वे पाणा ४ न हंतव्वा १ न अज्जावेयव्वा २ न परिधित्तव्वा ३ न परियावेयव्वा ४ न उद्दवेयव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, आयरियवयणमेयं पुव्वं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामि, हंभो पवाइया! किं भे सायं दुक्खं असायं ? समिया पडिवणे यावि एवं बूया - सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं असायं अपरिनिव्वाणं महब्भयं दुक्खं तिबेमि ( सू० १३३ ) ॥ चतुर्थाध्ययने द्वितीय उद्देशकः ४-२ ॥
'आवन्ती'ति यावन्तः 'केआवन्ती'ति केचन 'लोके' मनुष्यलोके 'श्रमणाः' पाषण्डिकाः 'ब्राह्मणा' द्विजातयः पृथक्पृथग् विरुद्धो वादो विवादस्तं वदन्ति, एतदुक्तं भवति - यावन्तः केचन परलोकं ज्ञीप्सवस्ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते, तथाहि - भागवता ब्रुवते – “पञ्चविंशतितत्त्वपरिज्ञानान्मोक्षः, सर्वव्याप्यात्मा निष्क्रियो निर्गुणश्चैतन्यलक्षणो, निर्विशेषं सामान्यं तत्त्व" मिति, वैशेषिकास्तु भाषन्ते – “ द्रव्यादिषट्पदार्थपरिज्ञानान्मोक्षः, समवायिज्ञानगुणेनेच्छाप्रयत्न द्वेषादिभिश्च गुणैर्गुणवानात्मा, परस्परनिरपेक्षं सामान्यविशेषात्मकं तत्त्व" मिति
Jain Education International
For Personal & Private Use Only
सम्य० ४
उद्देशकः२
॥ १८५ ॥
www.jainelibrary.org