________________
सम्य०४
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशक
॥१८४॥
कूरेहिं चिटुं परिचिटुइ, अचिटुं कूरेहि कम्मेहिं नो चिटुं परिचिटुइ, एगे वयंति अदु
वावि नाणी नाणी वयंति अदुवावि एगे (सू० १३२) 'इह' अस्मिंश्चतुर्दशरज्ज्वात्मके लोके 'एकेषां' मिथ्यात्वाविरतिप्रमादकषायवतां 'तत्र तत्र' नरकतिर्यग्गत्यादिषु यातनास्थानकेषु 'संस्तवः' परिचयो भूयोभूयोगमनाद्भवति, ततः किमित्याह-'अहोववाइए' इत्यादि, त एवमिच्छया प्रणी-10 तत्वादिन्द्रियवशगास्तद्वशित्वात्तदनुकूलमाचरन्तो नरकादियातनास्थानजातसंस्तवास्तीथिका अध्यौदेशिकादि निर्दोषमाचक्षाणा 'अधऔपपातिकान्' नरकादिभवान् 'स्पर्शान्' दुःखानुभवान् 'प्रतिसंवेदयन्ति' अनुभवन्ति, तथाहि-लोकायतिका ब्रुवते-"पिब खाद च चारुलोचने !, यदतीतं वरगात्रि! तन्न ते । न हि भीरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम् ॥१॥" वैशेषिका अपि सावद्ययोगारम्भिणः, तथाहि ते भाषन्ते–'अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थयज्ञदानमो(प्रो)क्षणदिग्नक्षत्रमन्त्रकालनियमाः' इत्यादि, अन्येऽपि सावद्ययोगानुष्ठायिनोऽनया दिशा वाच्याः, स्यात् किं सर्वोऽपीच्छाप्रणीतादिर्यावत्तत्र तत्र कृतसंस्तवोऽधऔपपातिकान् स्पर्शान् प्रतिसंवेदयत्याहोस्वित्कश्चिदेव तद्योग्यकर्मकार्येवानुभवति !, न सर्व इति दर्शयति-'चिट्ठ' इत्यादि, चिट्ठ-भृशमत्यर्थ 'क्रूरैः' वधबन्धादिभिः 'क-|| र्मभिः' क्रियाभिः 'चिह'मिति भृशमत्यर्थमेव विरूपां दशां वैतरणीतरणासिपत्रवनपत्रपाताभिघातशाल्मलीवृक्षालिङ्गनादिजनितामनुभवंस्तमस्तमादिस्थानेषु परितिष्ठति, यस्तु नात्यर्थ हिंसादिभिः कर्मभिर्वर्त्तते सोऽत्यन्तवेदनानिचिते
SAMA36H38***************
॥१८४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org