SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ सम्य०४ श्रीआचाराङ्गवृत्तिः ' (शी०) उद्देशका ॥१८३॥ बुध्यमानेतरविशेषेण यादग्भूतानां कथयितव्यं तान् सूत्रेणैव दर्शयति-विज्ञानप्राप्तानां' हिताहितप्राप्तिपरिहाराध्यवसायो विज्ञानं तत्प्राप्ता विज्ञानप्राप्ताः, समस्तपर्याप्तिभिः पर्याप्ताः, संज्ञिन इत्यर्थः, नागार्जुनीयास्तु पठन्ति-"आघाइ धम्म खलु से जीवाणं, तंजहा-संसारपडिवन्नाणं माणुसभवत्थाणं आरंभविणईणं दुक्खुव्वेअसुहेसगाणं धम्मसवणगवेसयाणं सुस्सूसमाणाणं पडिपुच्छमाणाणं विण्णाणपत्ताणं” एतच्च प्रायो गतार्थमेव, नवरमारम्भविनयिनामित्यारम्भविनयः-आरम्भाभावः स विद्यते येषामिति मत्वर्थीयस्तेषामिति । यथा च ज्ञानी धर्मामाचष्टे तथा दर्शयति-'अट्टावि' इत्यादि, विज्ञानं प्राप्ता धर्म कथ्यमानं कुतश्चिन्निमित्तादात अपि सन्तः चिलातिपुत्रादय इव अथवा प्रमत्ता विषयाभिष्वङ्गादिना शालिभद्रादय इव तथाविधकर्मक्षयोपशमापत्तेर्यथा प्रतिपद्यन्ते तथाऽऽचष्टे-यदिवाऽऽर्ताः-दुःखिनः प्रमत्ताः-सुखिनः, तेऽपि प्रतिपद्यन्ते धर्म, किं पुनरपरे?, अथवा आर्त्ताः-रागद्वेषोदयेन प्रमत्ता विषयैः, ते च तीथिका| गृहस्था वा संसारकान्तारं विशन्तः कथं भवतां विज्ञातज्ञेयानां करुणास्पदानां रागद्वेषविषयाभिलाषोन्मूलनाय न प्रभवन्ति । एतच्चान्यथा मा मंस्था इति दर्शयितुमाह-'अहा सच्च' मित्यादि, इदं यन्मया कथितं कथ्यमानं च तद्यथासत्यं, याथातथ्यमित्यर्थः, इत्येतदहं ब्रवीमि, यथा दुर्लभमवाप्य सम्यक्त्वं चारित्रपरिणामं वा प्रमादो न कार्यः, स्यात्|किमालम्ब्य प्रमादो न कार्यस्तदाह-नाणागमो' इत्यादि, न ह्यनागमो मृत्योर्मुखस्य कस्यचिदपि संसारोदरवर्तिनोऽ|स्तीति, उक्तं च-"वदत यदीह कश्चिदनुसंततसुखपरिभोगलालितः । प्रयत्नशतपरोऽपि विगतव्यथमायुरवाप्तवान्नरः ॥१॥न खलु नरः सुरौघसिद्धासुरकिन्नरनायकोऽपि यः। सोऽपि कृतान्तदन्तकुलिशाक्रमेण कृशितो न नश्यति ॥२॥" ॥१८३॥ Jan Education International For Personal & Private Use Only www.janelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy