________________
सम्य०४
श्रीआचाराङ्गवृत्तिः (शी०) ॥१७९॥
उद्देशका
AARRRRRRR
तथा 'नित्यः' अप्रच्युतिरूपः, पञ्चस्वपि विदेहेषु सदाभवनात्, तथा 'शाश्वतः' शाश्वतगतिहेतुत्वात् यदिवा नित्यत्वाच्छाश्वतो, न तु नित्यं भूत्वा न भवति, भव्यत्ववत्, अभूत्वा च नित्यं भवति घटाभाववदिति, अयं तु त्रिकालावस्थायीति, अमुं च 'लोक' जन्तुलोकं दुःखसागरावगाढं 'समेत्य' ज्ञात्वा तदुत्तरणाय 'खेदज्ञैः' जन्तुदुःखपरिच्छेत्तभिः 'प्रवेदितः' प्रतिपादित इति, एतच्च गौतमस्वामी स्वमनीषिकापरिहारेण शिष्यमतिस्थैर्यार्थ बभाषे ॥ एनमेव सूत्रोक्तमर्थ नियुक्तिकारः सूत्रसंस्पर्शकेन गाथाद्वयेन दर्शयति| जे जिणवरा अईया जे संपइ जे अणागए काले। सब्वेवि ते अहिंसं वदिंसु वदिहिति विवदिति ॥२२६॥ | | छप्पिय जीवनिकाएणोवि हणेणोऽवि अहणाविजा।नोविअअणुमन्निज्जा सम्मत्तस्सेस निजुत्ती॥२२७॥
[चतुर्थेऽध्ययने प्रथमोद्देशकनियुक्तिः] गाथाद्वयमपि कण्ठ्यं । तीर्थकरोपदेशश्च परोपकारितया तत्स्वाभाव्यादेव प्रवर्त्तमानो भास्करोदय इव प्रबोध्यविशेषनिरपेक्षतया प्रवर्तते(तत्)तद्यथेत्यादिना दर्शयति-'तंजहा-उडिएसु वा' इत्यादि, धर्मचरणायोद्यता उत्थिता-ज्ञानदर्शनचारित्रोद्योगवन्तः, तद्विपर्ययेणानुत्थिताः तेषु निमित्तभूतेषु तानुद्दिश्य भगवता सर्ववेदिना त्रिजगत्पतिना धर्मः प्रवेदितः, एवं सर्वत्र लगयितव्यं, यदिवा उत्थितानुत्थितेषु द्रव्यतो निषण्णानिषण्णेषु, तत्रैकादशसु गणधरेषूत्थितेष्वेव वीरवर्द्धमानस्वामिना धर्मः प्रवेदितः, तत उपस्थिता धर्म शुश्रूषवो जिघृक्षवो वा तद्विपर्ययेणानुपस्थितास्तेष्विति, निमित्तसप्तमी चेयं, यथा चर्मणि दीपिनं हन्तीति, ननु च भावोपस्थितेषु चिलातिपुत्रादिष्विव धर्मकथा युक्तिमती अनुपस्थितेषु तु कं गुणं पुष्णाति?, अनुपस्थितेष्वपीन्द्रनागादिषु विचित्रत्वात्कर्म
॥ १७९॥
**
Jain Education Interational
For Personal & Private Use Only
www.iainelibrary.org