________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १७८ ॥
वा उवट्टिए वा अणुवट्ठिएसु वा उवरयदंडेसु वा अणुवरयदंडेसु वा सोवहिएसु वा अणोवहिए वा संजोगरएसु वा असंजोगरएसु वा, तच्चं चेयं तहा चेयं अस्ति चेयं पच्चइ ( सू० १२६ )
गौतमस्वाम्याह-यथा सोऽहं ब्रवीमि योऽहं तीर्थकरवचनावगततत्त्वः श्रद्धेयवचन इति यदिवा शौद्धोदनिशिष्याभिमतक्षणिकत्वव्युदासेनाह-येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि नापरो, यदिवा सेशब्दस्तच्छन्दार्थे यच्छ्रद्धाने सम्यक्त्वं भवति तदहं तत्त्वं ब्रवीमीति, येऽतीताः - अतिक्रान्ता ये च प्रत्युत्पन्नाः - वर्त्तमानकालभाविनो ये चागामिनः त | एवं प्ररूपयन्तीति सम्बन्धः, तत्रातिक्रान्तास्तीर्थ कृतः कालस्यानादित्वादनन्ता अतिक्रान्ता अनागता अध्यनन्ता आगा|मिकालस्यानन्तत्वात्तेषां च सर्वदैव भावादिति वर्त्तमानतीर्थकृतां च प्रज्ञापकापेक्षितया अनवस्थितत्वे सत्यप्युत्कृष्टजघन्यपदिन एव कथ्यन्ते, तत्रोत्सर्गतः समयक्षेत्रसम्भविनः सप्तत्युत्तरशतं तच्चैवं पश्ञ्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वादेकैकस्मिन् द्वात्रिंशत् द्वात्रिंशत् पञ्चस्वपि भरतेषु पञ्चैव मैरावतेष्वपीति, तत्र द्वात्रिंशत्सञ्चभिर्गुणिताः षष्टयुत्तरशतं (१६०) भरतैरावतदशप्रक्षेपेण सप्तत्यधिकं शतमिति, जघन्यतस्तु विंशतिः, सा चैवं पश्ञ्चस्वपि महाविदेहेषु महाविदेहान्तर्महानद्युभयतट सद्भावात्तीर्थकृतां प्रत्येकं चत्वारः, तेऽपि पञ्चभिर्गुणिता विंशतिर्भरतैरावतयोस्त्वेकान्तसुषमादावभाव एवेति, अन्ये तु व्याचक्षते - मेरोः पूर्वापरविदेहयोरेकैक सद्भावान्महाविदेहे द्वावेव ततः पञ्चस्वपि दशैवेति, तथा च ते
Jain Education International
For Personal & Private Use Only
सम्य० ४
उद्देशकः १
॥ १७८ ॥
www.jainelibrary.org