________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ १७७ ॥
म्बन्धो लगयितव्यः, कथमसङ्ख्येयगुणा श्रेणिर्भवेदिति ?, अत्रोच्यते, इह मिथ्यादृष्टयो देशोनकोटी कोटिकर्म्मस्थितिका | ग्रन्थिकसत्त्वास्ते कर्मनिर्जरामाश्रित्य तुल्याः, धर्म्मप्रच्छनोत्पन्नसंज्ञास्तेभ्यो ऽसङ्ख्ये यगुणनिर्जरकाः, ततोऽपि पिपृच्छिषुः सन् साधुसमीपं जिगमिषुस्तस्मादपि क्रियाविष्टः पृच्छन्, ततोऽपि धर्म्म प्रतिपित्सुः अस्मादपि क्रियाविष्टः प्रतिपद्यमानः, तस्मादपि पूर्वप्रतिपन्नोऽसङ्ख्येयगुणनिर्जरक इति सम्यक्त्वोत्पत्तिर्व्याख्याता, तदनन्तरं विरताविरतिं प्रतिपित्सुप्रतिपद्यमानपूर्वप्रतिपन्नानामुत्तरोत्तरस्यासङ्ख्येयगुणा निर्जरा योज्या, एवं सर्वविरतावपीति, ततोऽपि पूर्वप्रतिपन्न सर्व विरतेः सकाशात् 'अनंतकम्मंसे'त्ति 'पदैकदेशे पदप्रयोग' इति यथा भीमसनो भीमः सत्यभामा भामा एवमनन्तशब्दोपलक्षिता अनन्तानुबन्धिनः, ते हि मोहनीयस्यांशाः-भागाः तांश्चिक्षपयिषुर सङ्ख्येयगुणनिर्जरकः, ततोऽपि क्षपकः, तस्मादपि क्षीणानन्तानुबन्धिकषायः, एतदेव दर्शनमोहनीयत्रयेऽभिमुख क्रियारूढापवर्गत्रयमायोज्यं, ततोऽपि क्षीणसप्तकात्क्षीणसप्तक एवोपशमश्रेण्यारूढोऽसङ्ख्येयगुणनिर्जरकः, ततोऽप्युपशान्तमोहः, तस्मादपि चारित्रमोहनीयक्षपकः, ततोऽपि क्षीणमोहः, अत्र चाभिमुखादित्रयं यथासम्भवमायोजनीयम्, अस्मादपि 'जिनो' भवस्थकेवली, तस्मादपि शैलेश्यवस्थोऽसङ्ख्येयगुणनिर्जरकः । तदेवं कर्मनिर्जरायै असख्येयलोकाकाशप्रदेशप्रमाणनिष्पादितसंयमस्थानप्रचयोपात्तश्रेणिः | सोत्तरोत्तरेषामसङ्ख्येयगुणा, उत्तरोत्तर प्रवर्द्धमानाध्यवसाय कण्डकोपपत्तेरिति, कालस्तु तद्विपरीतोऽयोगिकेवलिन आरभ्य प्रतिलोमतया सख्येयगुणया श्रेण्या ज्ञेयः, इदमुक्तं भवति यावत् कालेन यावत्कर्मायोगिकेवली क्षपयति ताव| न्मात्रं कर्म सयोगिकेवली सख्येयगुणेन कालेन क्षपयति एवं प्रतिलोमतया यावद्धर्मं पिपृच्छिषुस्तावन्नेयमिति गाथा -
Jain Education International
For Personal & Private Use Only
सभ्य० ४
उद्देशकः १
॥ १७७ ॥
www.jainelibrary.org