SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ शीतो० ३ उद्देशकः ३ श्रीआचा स्यादाहारः प्राणसन्धारणार्थम् । प्राणाः धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात् ॥१॥" सैवात्मगुप्तता राङ्गवृत्तिः कथं स्यादिति चेदाह-विराग' मित्यादि, विरञ्जनं विरागस्तं विरागं रूपेषु मनोज्ञेषु चक्षुर्गोचरीभूतेषु 'गच्छेद्' यायात्, (शी०) रूपमतीवाऽऽक्षेपकारी अतो रूपग्रहणम् , अन्यथा शेषविषयेष्वपि विरागं गच्छेदित्युक्तं स्यात्, महता-दिव्यभावेन यद्य वस्थितं रूपं क्षुल्लकेषु वा मनुष्यरूपेषु सर्वत्र विरागं कुर्यादिति, अथवा दिव्यादि प्रत्येकं महत् क्षुल्लं चेति क्रिया पूर्ववत्, ॥१६६॥ नागार्जुनीयास्तु पठन्ति-"विसयंमि पंचगंमीवि, दुविहंमि तियं तियं । भावओ सुद्द जाणित्ता, से न लिप्पइ दोसुवि ॥१॥" शब्दादिविषयपञ्चकेऽपि इष्टानिष्टरूपतया द्विविधे हीनमध्यमोत्कृष्टभेदमित्येतत् भावतः-परमार्थतः सुष्टु ज्ञात्वा स मुनिः पापेन कर्मणा द्वाभ्यामपि-रागद्वेषाभ्यां न लिप्यते , तदकरणादिति भावः, स्यात्-किमालम्ब्यैतत्कर्त्तव्यमित्याह-'आगई' मित्यादि, आगमनम्-आगतिः सा च तिर्यड्मनुष्ययोश्चतुर्दा, चतुर्विधनरकादिगत्यागमनसद्भावाद्, देवनारकयोद्वैधा, तिर्यग्मनुष्यगतिभ्यामेवागमनसद्भावाद्, एवं देवगतिरपि, मनुष्येषु तु पञ्चधा, तत्र मोक्षगतिसद्भावाद्, अतस्तामागतिं गतिं च परिज्ञाय संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायमवेत्य मनुष्यत्वे च मोक्षगतिसद्भावमाकलय्यान्तहेतुत्वा दन्ती-रागद्वेषौ ताभ्यां द्वाभ्यामन्ताभ्यामदृश्यमानाभ्यामनपदिश्यमानाभ्यां वा, क्त्वाप्रत्ययस्योत्तरक्रियामाह-'से' इदत्यादि, सः-आगतिगतिपरिज्ञाता रागद्वेषाभ्यामनपदिश्यमानो न छिद्यतेऽस्यादिना न भिद्यते कुन्तादिना न दह्यते पाव कादिना न हन्यते नरकगत्यानुपूर्व्यादिना बहुशः, अथवा रागद्वेषाभावात् सिद्ध्यत्येव, तदवस्थस्य चैतानि छेदनादीनि विशेषणानि 'कंचण' मिति विभक्तिपरिणामात् केनचित्सर्वस्मिन्नपि लोके न छिद्यते नापि भिद्यते रागद्वेषोपशमादिति, ॥१६६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy