________________
-
-
श्रीआचाराङ्गवृत्तिः (शी०)
-
-
॥१६३॥
-
नाणी, उववायं चवणं णच्चा, अणण्णं चर माहणे, से न छणेन छणावए छणंतं नाणु- शीतो०३
जाणइ, निर्दिबंद नंदि, अरए पयासु, अणोमदंसी, निसपणे पावेहिं कम्मेहिं (सू०११४) उद्देशकः२ एवम्-अनन्तरोक्तमर्थमन्यवधपरिग्रहपरितापनादिकमासेव्य 'इत्येवेति लोभेच्छाप्रतिपूरणायैव 'एके' भरतराजादयः 'समुत्थिताः' सम्यग्योगत्रिकेणोत्थिताः संयमानुष्ठानेनोद्यतास्तेनैव भवेन सिद्धिमासादयन्ति । संयमसमुत्थानेन च समुत्थाय कामभोगान् हिंसादीनि चानवद्वाराणि हित्वा किं विधेयमित्याह-'तम्हा' यस्माद्वान्तभोगतया कृतप्रतिज्ञस्तस्माद्भोगलिप्सुतया तं द्वितीयं मृषावादमसंयम वा नासेवेत । विषयार्थमसंयमः सेव्यते, ते च विषया निःसारा | इति दर्शयति–'निस्सारं' इत्यादि, सारो हि विषयगणस्य तत्प्राप्तौ तृप्तिस्तदभावान्निःसारस्तं दृष्ट्वा 'ज्ञानी' तत्त्ववेदी || न विषयाभिलाषं विदध्यात् । न केवलं मनुष्याणां, देवानामपि विषयसुखास्पदमनित्यं जीवितमिति च दर्शयति-'उववायं चवणं णच्चा' उपपातं-जन्म च्यवनं-पातस्तच्च ज्ञात्वा न विषयसङ्गोन्मुखो भवेदिति, यतो निःसारो विषयग्रामः समस्तः संसारो वा सर्वाणि च स्थानान्यशाश्वतानि, ततः किं कर्त्तव्यमित्याह-'अणण्ण'मित्यादि, मोक्षमार्गादन्योऽसंयमो नान्योऽनन्यः-ज्ञानादिकस्तं चर 'माहण' इति मुनिः । किं च-से न छणे' इत्यादि, स मुनिरनन्यसेवी प्राणिनो न क्षणुयात्-न हन्यात् नाप्यपरं घातयेत् घातयन्तं न समनुजानीयात् । चतुर्थव्रतसिद्धये विदमुपदिश्यते-'निबिंद ॥१६३ ।। इत्यादि, निर्विन्दस्व-जुगुप्सस्व विषयजनितां 'नंदी' प्रमोदं, किम्भूतः सन् ? 'प्रजासु' स्त्रीषु अरक्तो-रागरहितो,
dain Education International
For Personal & Private Use Only
www.janelibrary.org