________________
एस मरणा पमुच्चइ, से हु दिट्टभए मुणी, लोगंसि परमदंसी विवित्तजीवी उवसंते
समिए सहिए या जए कालकंखी परिवए, बहुं च खलु पावं कम्मं पगडं ( सू० १११ )
बिबे
'एष' इत्यनन्तरोक्तो मूलाग्ररेचको निष्कर्म्मदर्शी मरणाद् - आयुः क्षयलक्षणात् मुच्यते, आयुषो बन्धनाभावाद्, य| दिवा आजवजवीभावादावीचीमरणाद्वा सर्व एव संसारो मरणं तस्मात्प्रमुच्यते । यश्चैवं स किम्भूतो भवतीत्याह - 'से हु' इत्यादि, 'सः' अनन्तरोक्तो मुनिर्दृष्टं संसाराद्भयं सप्तप्रकारं वा येन स तथा, हुरवधारणे दृष्टभय एव । किं च'लोयंसि' इत्यादि, लोके द्रव्याधारे चतुर्द्दशभूतग्रामात्मके वा परमो - मोक्षस्तत्कारणं वा संयमः तं द्रष्टुं शीलमस्येति परमदर्शी, तथा 'विविक्तं' स्त्रीपशुपण्डकसमन्वितशय्यादिरहितं द्रव्यतः भावतस्तु रागद्वेषरहितमसक्ङ्किष्टं जीवितुं शीलमस्येति विविक्तजीवी, यश्चैवम्भूतः स इन्द्रियनोन्द्रियोपशमादुपशान्तो, यश्चोपशान्तः स पञ्चभिः समितिभिः सम्यग्वा इतो - तो मोक्षमार्गे समितः, यश्चैवं स ज्ञानादिभिः सहितः - समन्वितो, यश्च ज्ञानादिसहितः स सदा यतःअप्रमादी । किमवधिश्चायमनन्तरोको गुणोपन्यास इत्याह- 'काल' इत्यादि, कालो - मृत्युकालस्तमाकाङ्क्षितुं शीलमस्येति कालाकाङ्क्षी स एवम्भूतः परि:- समन्तात्त्र जेलरिव्रजेत् यावसर्यायागतं पण्डितमरणं तावदाकाङ्क्षमाणो विविक्तजीवित्वादिगुणोपेतः संयमानुष्ठानमार्गे परिष्वष्केदिति । स्यादेतत्- किमर्थं एवं क्रियते ? इत्याह-मूलोत्तरप्रकृतिभेदभिन्नं प्रकृतिस्थित्यनुभावप्रदेश बन्धात्मकं बन्धोदयसत्कर्म्मताव्यवस्थामयं तथा बद्धस्पृष्टनिधत्त निकाचितावस्था
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org