SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥१४७॥ । लोक.वि.२ उद्देशका SASASAASAASAASAASAS पेतो वा, स एवंभूतः के गुणमवाप्नोतीत्याह-'न लिप्पईत्यादि, 'न लिप्यते' नावगुण्ठ्यते, केन?—'क्षणपदेन' हिंसास्पदेन प्राण्युपमर्दजनितेन, 'क्षणु हिंसायामि'त्यस्यैतद्रूपं । कोऽसौ ?, वीर इति । किमेतावदेव वीरलक्षणमुतान्यदप्य(स्त्य)स्तीत्याह| 'से मेहावी'त्यादि, स 'मेधावी' बुद्धिमान् यः 'अणोद्घातनस्य खेदज्ञः' अणत्यनेन जन्तुगणश्चतुर्गतिकं संसारमित्यणंकर्म तस्योत्-प्राबल्येन घातनम्-अपनयनं तस्य तत्र वा खेदज्ञो-निपुणः, इह हि कर्मक्षपणोद्यतानां मुमुक्षूणां यः कर्मक्षपणविधिज्ञः स मेधावी कुशलो वीर इत्युक्तं भवति, किं चान्यत्-'जे य'इत्यादि, यश्च प्रकृतिस्थित्यनुभावप्रदेशरूपस्य चतुर्विधस्यापि बन्धस्य यः प्रमोक्षः तदुपायो वा तमन्वेष्टुं-मृगयितुं शीलमस्येत्यन्वेषी, यश्चैवम्भूतः स वीरो मेधावी खेदज्ञ इति पूर्वेण सम्बन्धः, अणोद्घातनस्य खेदज्ञ इत्यनेन मूलोत्तरप्रकृतिभेदभिन्नस्य योगनिमित्तायातस्य कषायस्थितिकस्य कर्मणो बध्यमानावस्थां बद्धस्पृष्टनिधत्तनिकाचितरूपां तदपनयनोपायं च वेत्तीत्येतदभिहितं, अनेन चापनयनानुष्ठानमिति न पुनरुक्तदोषानुषङ्गः प्रसजति । स्यादेतत्-योऽयमणोद्घातनस्य खेदज्ञो बन्धमोक्षान्वेषको वाऽभिहितः स किं छद्मस्थ आहोस्वित् केवली?, केवलिनो यथोक्तविशेषणासम्भवात् छद्मस्थग्रहणं, केवलिनस्तर्हि का वालेंति ?, उच्यते-'कुसले' इत्यादि, कुशलोऽत्र क्षीणघातिकमाशो विवक्षितः, स च तीर्थकृत् सामान्यकेवली वा छद्मस्थो हि कर्मणा बद्धो मोक्षार्थी तदुपायान्वेषकः, केवली तु पुनर्घातिकर्मक्षयान्नो बद्धो भवोपग्राहिकर्मसद्भावान्नो मुक्तो, यदिवा छद्मस्थ एवाभिधीयते-'कुशल' अवाप्तज्ञानदर्शनचारित्रो मिथ्यात्वद्वादशकषायोपशमसद्भावात् तदुद ॥१४७॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy