________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥१४६॥
लोक.वि.२ उद्देशकः६
*ACASAASAASAHA**
अपिः सम्भावने, आस्तां तावद्वाचा तर्जनम् , अनाद्रियमाणो हन्यादपि, चशब्दादन्यदप्येवंजातीयक्रोधाभिभूतो दण्डकशादिना ताडयेदिति, उक्तं च-"तत्थेव य निढवणं बंधण निच्छुभण कडगमद्दो वा । निब्विमयं व नरिंदो करेज संघपि सो कुद्धो॥१॥" तथा तच्चनिकोपासको नन्दबलात् बुद्धोत्पत्तिकथानकाद्भागवतो वा भल्लिगृहोपाख्यानाद्रौद्रो वा पेढालपुत्रसत्यक्युमाव्यतिकराकर्णनात् प्रद्वेषमुपगच्छेत् , द्रमककाणकुण्टादिर्वा कश्चित्तमेवोद्दिश्योद्दिश्य अधर्मफलोपदर्शनेनेति । एवमविधिकथनेनेहैव तावदाधा, आमुष्मिकोऽपि न कश्चिद्गुणोऽस्तीत्याह च-एत्थं पि' इत्यादि, मुमुक्षोः परहितार्थ धर्मकथां कथयतस्तावत्पुण्यमस्ति, परिषदं त्वविदित्वाऽनन्तरोपवर्णितस्वरूपकथने 'अत्रापि धर्मकथायामपि 'श्रेयः' पुण्यमित्येतनास्तीत्येवं जानीहि, यदिवाऽसौ राजादिरनाद्रियमाणस्तं साधु धर्मकथिकमपि हन्यात् । कथमि|त्याह-'एत्थंपी'त्यादि, यद्यदसौ पशुवधतर्पणादिक धर्मकारणमुपन्यस्यति तत्तदसौ धर्मकथिकोऽत्रापि श्रेयो न विद्यते इत्येवं प्रतिहन्ति, यदिवा यद्यदविधिकथनं तत्र तत्रेदमुपतिष्ठते-अत्रापि श्रेयो नास्तीति, तथाहि-अक्षरकोविदपरिषदि पक्षहेतुदृष्टान्ताननादृत्य प्राकृतभाषया कथनमविधिरितरस्यां चान्यथेति । एवं च प्रवचनस्य हीलनैव केवलं कर्मबन्धश्च, न पुनः श्रेयो, विधिमजानानस्य मौनमेव श्रेय इति, उक्तं च-"सावजणवजाणं वयणाणं जो न याणइ विसेसं । वुत्तुंपि तस्स न खमं किमंग पुण देसणं काउं? ॥१॥" स्यादेतत्-कथं तर्हि धर्मकथा कार्येत्युच्यते-'कोऽयं'
१ तत्रैव निष्ठापनं बन्धनं निष्काशनं कटकमदै वा । निर्विषयं वा नरेन्द्रः कुर्यात्सङ्घमपि स क्रुद्धः ॥१॥ २ सावधानवद्ययोर्वचनयोर्यों न जानाति विशेषम् । वक्तुमपि तस्य न क्षमं किमङ्ग पुनर्देशनां कर्तुम् ? ॥१॥
॥१४६॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org