SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ लोक.वि.२ श्रीआचाराङ्गवृत्तिः (शी०) उद्देशकः४ ॥१२७॥ MORRORESULTALLASS णतेन स्याद् , अथवा येन केनचिद्धेतुना कर्मबन्धः स्यात्तन्न कुर्यात, तत्र न वर्त्ततेत्यर्थः, यदिवा येनैव राज्योपभोगादिना कर्मबन्धो येन वा निर्ग्रन्थत्वादिना मोक्षः 'स्याद्' भवेत्तेनैव तथाभूतपरिणामवशान्न स्यादिति । एतच्चानुभवावधारितमपि मोहाभिभूता नावगच्छन्तीत्याह-'इणमेव' इत्यादि, इदमेव हेतुवैचित्र्यं 'न बुध्यन्ते' न संजानते, के ?ये जना मौनीन्द्रोपदेशविकला मोहेन-अज्ञानेन मिथ्यात्वोदयेन वा प्रावृताः-छादितास्तत्त्वविपर्यस्तमतयो मोहनीयोदयाद्भवन्ति । मोहनीयस्य च तद्भेदकामानां च स्त्रियो गरीयः कारणमिति दर्शयतिथीभि' इत्यादि, स्त्रीभिः-अङ्गनाभिभृत्क्षेपादिविभ्रमैरसौ लोकः आशाच्छन्दाभिभूतात्मा क्रूरकर्मविधायी नरकविपाकफलं शल्यमाहृत्य तत्फलमबुध्यमानो मोहाच्छादितान्तरात्मा प्रकर्षेण व्यथितः पराजितो वशीकृत इतियावत्, न केवलं स्वतो विनष्टाः, अपरानपि असकृदुपदेशदानेन विनाशयन्तीत्याह-'ते भो!' इत्यादि, 'ते' स्त्रीभिःप्रव्यथिता भो! इत्यामन्त्रणे एतद्वदन्ति-यथैतानि-स्यादीनि 'आयतनानि' उपभोगास्पदभूतानि वर्तन्ते, एतैश्च विना शरीरस्थितिरेव न भवतीति । एतच्च प्रव्यथनमुपदेशदानं वा तेषामपायाय स्यादित्याह-'से' इत्यादि, तेषां 'से' इत्येतत् प्रव्यथनमायतनभणनं वा 'दुःखाय' भवति-शारीरमानसासातवेदनीयोदयाय जायते, किं च-'मोहाए' मोहनीयकर्मबन्धनाय अज्ञानाय वेति, तथा 'माराए' मरणाय, ततोऽपि 'नरगाए' नरकाय नरकगमनार्थ, पुनरपि 'नरगतिरिक्खाए' ततोऽपि नरकादुद्धृत्त्य तिरश्चयेतत्प्रभवति, तिर्यग्योन्यर्थ तत् स्त्रीप्रव्यथनं भोगायतनवदनं वा सर्वत्र सम्बन्धनीयं । स एवमङ्गनापाङ्गविलोकनाक्षितस्तासु तासु योनिषु पर्यटन्नात्महितं न जानातीत्याह-'सययं' इत्यादि, सततम्-अनवरतं दुःखाभिभूतो मूढो 'धर्म' ॥१२७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy