________________
AIRACLEARCH
तमित्यतो भूयो भूयस्तदेवोपदिश्यत इत्याह-'सव्वेसिं' इत्यादि, सर्वेषामविगानेन 'जीवितम्' असंयमजीवितं 'प्रियं' दयितं, यद्येवं ततः किमित्यत आह-तं परिगिज्झ' तद्-असंयमजीवितं 'परिगृह्य' आश्रित्य, किं कुर्वन्तीत्याह| 'दुपयं' इत्यादि, 'द्विपदं' दासीकर्मकरादि 'चतुष्पदं' गवाश्वादि 'अभियुज्य' योजयित्वा अभियोगं ग्राहयित्वा व्यापारयित्वेत्युक्तं भवति, ततः किमित्यत आह–'संसिंचिया णं' इत्यादि, प्रियजीवितार्थमर्थाभिवृद्धये द्विपदचतुष्पदादिव्यापारेण 'संसिच्य' अर्थनिचयं संव_ 'त्रिविधेन' योगत्रिककरणत्रिकेण यापि काचिदल्पा परमार्थचिन्तायां बह्वयपि फल्गुदेश्या 'से' तस्यार्थारम्भिणः सा चार्थमात्रा 'तत्र' इति द्विपदाद्यारम्भे 'मात्रा' इति सोपस्कारत्वात्सूत्राणां अर्थमात्रा-अर्थाल्पता भवति' सत्तां बिभर्ति, किंभूता?, सा सूत्रेणैव कथयति-अल्पा वा बह्वी वा, अल्पबहुत्वं चापेक्षिकमतः सर्वाऽप्यल्पा सर्वाऽपि बह्वी 'स' इत्यर्थवान् 'तत्र' तस्मिन्नर्थे 'गृद्धः' अध्युपपन्नस्तिष्ठति, नालोचयत्यर्थस्योपार्जनक्लेशं न गणयति रक्षणपरिश्रमं न विवेचयति तरलतां नावधारयति फल्गुताम् , उक्तं च-कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं, निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम् । सुरपतिमपि श्वा पार्श्वस्थं सशङ्कितमीक्षते, न हि गणM यति क्षुद्रो लोकः परिग्रहफल्गुताम् ॥ १॥” इत्यादि, स च किमर्थमर्थमर्थयत इत्यत आह-'भोयणाए' भोजनम्-उपहाभोगस्तस्मै अर्थमर्थयते, तदर्थी च क्रियासु प्रवर्तते, क्रियावतश्च किं भवतीत्याह-'तओ से' इत्यादि, ततः 'से' तस्या
वलगनादिकाः क्रियाः कुर्वतः 'एकदा' लाभान्तरायकर्मक्षयोपशमे 'विविधं' नानाप्रकारं 'परिशिष्टं प्रभूतत्वाद्भुक्तोद्धरितं |'सम्भूतं' सम्यक्परिपालनाय भूतं-संवृत्तं, किं तत्?, महच्च तत्सरिभोगाङ्गत्वादुपकरणं च महोपकरणं-द्रव्यनिचय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org