________________
श्रीआचाराङ्गवृत्तिः (शी०)
लोक.वि.२ Bा उद्देशकः१
CHACKERACROSAGAR
अणभिकंतं च खलु वयं संपेहाए (सू०६९) चशब्द आधिक्ये खलुशब्दः पुनरर्थे पूर्वमभिक्रान्तं वयः समीक्ष्य मूढभावं बजतीति प्रतिपादितम् , अनभिक्रान्तं च पुनर्वयः संप्रेक्ष्य “आयलु समणुवासेन्जासि” इत्युत्तरेण सम्बन्धः, 'आत्मार्थम्' आत्महितं 'समनुवासयेत्' कुर्यादित्यर्थः। किमनतिक्रान्तवयसैवात्महितमनुष्ठेयमुतान्येनापि इति?, परेणापि लब्धावसरेणात्महितमनुष्ठेयमित्येतदर्शयति| खणं जाणाहि पंडिए (सू०७०)
क्षण:-अवसरो धर्मानुष्ठानस्य, स चार्यक्षेत्रसुकुलोत्पत्त्यादिकः, परिवादपोषणपरिहारदोषदुष्टानां जराबालभावरोगाणामभावे सति, तं क्षणं 'जानीहि' अवगच्छ ‘पण्डित' आत्मज्ञ!। अथवाऽवसीदन् शिष्यः प्रोत्साह्यते-हे अनतिक्रान्तयौवन ! परिवादादिदोषत्रयास्पृष्ट! पण्डित! द्रव्यक्षेत्रकालभावभेदभिन्नं 'क्षणम्' अवसरमेवंविधं 'जानीहि' अवबुध्यस्व, तथाहि-द्रव्यक्षणो द्रव्यात्मकोऽवसरो जङ्गमत्वपञ्चेन्द्रियत्वविशिष्टजातिकुलरूपबलारोग्यायुष्कादिको मनुष्यभावः संसारोत्तरणसमर्थचारित्रावाप्तियोग्यस्त्वयाऽवाप्तः, स चानादौ संसारे पर्यटतोऽसुमतो दुरापो भवति, अन्यत्र तु नैतच्चारित्रमवाप्यते, तथाहि-देवनारकभवयोः सम्यक्त्वश्रुतसामायिके एव, तिर्यक्षु च कस्यचिद्देशविरतिरेवेति । क्षेत्रक्षणः क्षेत्रात्मकोऽवसरो यस्मिन् क्षेत्रे चारित्रमवाप्यते, तत्र सर्वविरतिसामायिकस्याधोलौकिकग्रामसमन्वितं तिर्यक्षेत्रमेव, तत्राप्यद्धतृतीयद्वीपसमुद्राः, तत्रापि पञ्चदशसु कर्मभूमिषु, तत्रापि भरतक्षेत्रमपेक्ष्य अर्द्धषड़िशेषु जनपदेष्वित्यादिकः क्षेत्रक्षण:क्षेत्ररूपोऽवसरोऽधिगन्तव्यः, अन्यस्मिंश्च क्षेत्र आद्ये एव सामायिके । कालक्षणस्तु कालरूपः क्षणोऽवसरः, स चावसप्पिण्यां
4-%ARCLARRESS
९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org