SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ जघन्यतस्त्वङ्गलासख्येयभागविषयत्वं सर्वेषाम्, अत्र च 'सोयपरिणाणेहिं परिहायमाणेही'त्यादि य उत्पत्तिं प्रति व्यत्ययेनेन्द्रियाणामुपन्यासः स एवमर्थ द्रष्टव्यः-इह संज्ञिनः पञ्चेन्द्रियस्य उपदेशदानेनाधिकृतत्वादुपदेशश्च श्रोत्रेन्द्रियविषय इतिकृत्वा तत्पर्याप्तौ च सर्वेन्द्रियपर्याप्तिः सूचिता भवति । श्रोत्रादिविज्ञानानि च वयोऽतिक्रमे परिहीयन्ते, तो वाह-'अभिकत'मित्यादि, अथवा श्रोत्रादिविज्ञानैरपचितैः करणभूतैः सद्भिः 'अभिकंतं च खलु वयं स पेहाए' तत्र प्राणिनां कालकृता शरीरावस्था यौवनादिर्वयः तजरामभि-मृत्युं वा क्रान्तमभिक्रान्तम् , इह हि चत्वारि वयांसि-कुमारयौवनमध्यमवृद्धत्वानि, उक्तं च-"प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्त, चतुर्थे कि करिष्यति ॥१॥" तत्राद्यवयोद्वयातिक्रमे जराभिमुखमभिक्रान्तं वयो भवति, अन्यथा वा त्रीणि वयांसि-कौमारयौवनस्थविरत्वभेदाद्, उक्तं च-"पिता रक्षति कौमारे, भर्ती रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमहति ॥ १॥" अन्यथा वा त्रीणि वयांसि, बालमध्यवृद्धत्वभेदात् , उक्तं च-आषोडशाद्भवेद्बालो, यावत्क्षीरान्नवर्तकः ।। मध्यमः सप्ततिं यावत्परतो वृद्ध उच्यते ॥१॥” एतेषु वयस्सु सर्वेष्वपि योपचयवत्यवस्था तामतिक्रान्तोऽतिक्रान्तवया इत्युच्यते, चः समुच्चये, न केवलं श्रोत्रचक्षुर्घाणरसनस्पर्शनविज्ञानैर्व्यस्तसमस्तैर्देशतः सर्वतो वा परिहीयमाणैर्वा मौढ्यमापद्यते, वयश्चातिक्रान्तं 'प्रेक्ष्य' पर्यालोच्य 'स' इति प्राणी खलुरिति विशेषणे विशेषेण-अत्यर्थ मौढ्यमापद्यत इति, आह च-'ततो से' इत्यादि, 'तत' इति तस्मादिन्द्रियविज्ञानापचयाद्वयोऽतिक्रमणाद्वा स इति प्राणी 'एकदेति वृद्धाव १ चक्षुषः संख्येयभागे यद्यपि तथापि सर्वेषां विषयस्य सामान्येन विवक्षणादित्थमुक्त. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy