SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ अहो य राओ य परितप्पमाणे कालाकालसमुट्ठाई संजोगट्ठी अटालोभी आलुपे सहसाकारे विणिविटुचित्ते, एत्थ सत्थे पुणो पुणो, अप्पं च खलु आउयं इहमेगेसिं माण वाणं तंजहा-॥ ६२॥ अस्य चानन्तरपरम्परादिसूत्रः सम्बन्धो वाच्यः, तत्रानन्तरसूत्रसम्बन्धः-'से हु मुणी परिण्णायकम्मे'ति, स मुनिः परिज्ञातका भवति यस्यैतद्गुणमूलादिकमधिगतं भवति, परम्परसूत्रसम्बन्धस्तु से जं पुण जाणिज्जा सहसंमुइयाए । परवागरणेणं अण्णेसिं वा सोच्चा' स्वसम्मत्या परव्याकरणेन तीर्थकरोपदेशादन्येभ्यो वाऽऽचार्यादिभ्यः श्रुत्वा जानीयात्-परिच्छिन्द्यात्, किं तदित्युच्यते-'जे गुणे से मूलठाणे', आदिसूत्रसम्बन्धस्तु 'सुयं मे आउसंतेणं भगवया एवमक्खाय' किं तत् श्रुतं भवता यद्भगवता आयुष्मताऽऽख्यातमिति?, उच्यते, 'जे गुणे से मूलढाणे, 'य' इति सर्वनाम प्रथमान्तं मागधदेशीवचनत्वादेकारान्तं सामान्योद्देशार्थाभिधायीति, गुण्यते-भिद्यते विशेष्यतेऽनेन द्रव्यमिति गुणः, स चेह शब्दरूपरसगन्धस्पर्शादिकः, 'स' इति सर्वनाम प्रथमान्तमुद्दिष्टनिर्देशार्थाभिधायीति, 'मूल'मिति निमित्तं कारणं प्रत्यय इति पर्यायाः, तिष्ठन्त्यस्मिन्निति स्थानं, मूलस्य स्थानं मूलस्थानं, 'व्यवच्छेदफलत्वाद् वाक्याना'मिति न्यायात् ||य एव शब्दादिकः कामगुणः स एव संसारस्य-नारकतिर्यग्नरामरसंसृतिलक्षणस्य यन्मूलं कारणं कषायास्तेषां स्थानम्- आश्रयो वर्त्तते, यस्मान्मनोज्ञेतरशब्दाधुपलब्धौ कषायोदयः, ततोऽपि संसार इति, अथवा मूलमिति-कारणं, तच्चा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy