SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) SECREENSE लोक.वि.२ उद्देशकः१ ॥८४॥ ग्व्यावर्णितस्वरूपयोर्भावलोकभावविजयाभ्यामत्रोपयोग इति, यथा चाष्टप्रकारेण कर्मणा लोकः-प्राणिगणो बध्यते, बन्धस्योपलक्षणत्वाद्यथा च मुच्यत इत्येतदप्यत्राध्ययने प्रकृतमिति गाथार्थः॥ तेनैव भावलोकविजयेन किं फलमित्याह विजिओ कसायलोगो सेयं खु तओ नियत्ति होइ । कामनियत्तमई खलु संसारा मुचई खिप्पं ॥१६८॥ ___ व्याख्या-'विजितः' पराजितः, कोऽसौ ?-कषायलोकः औदयिकभावकषायलोक इतियावत्, विजितकषायलोकः सन् किमवाप्नोतीत्याह-संसारान्मुच्यते क्षिप्रम् , अतस्तस्मान्निवर्तितुं श्रेयः, खुर्वाक्यालङ्कारे अवधारणे वा, निवर्तितुं श्रेय एव, किं कषायलोकादेव निवृत्तः संसारान्मुच्यते आहोश्विदन्यस्मादपि पापोपादानहेतोरिति दर्शयति-'कामे'त्यादि गाथार्द्ध सुगमम् । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवति, तत्रास्ख|लितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्-'जे गुणे से मुलट्ठाणे जे मूलहाणे से गुणे' इत्यादि ॥ अस्य च निक्षेपनियुक्त्यनुगमन प्रतिपदं निक्षेपः क्रियते, तत्र गुणस्य पञ्चदशधा निक्षेप:व्वे खित्ते काले फल पज्जव गणण करण अब्भासे । गुणअगुणे अगुणगुणे भव सीलगुणे य भावगुण ॥१६॥ |..नामगुणः स्थापनागुणः द्रव्यगुणः क्षेत्रगुणः कालगुणः फलगुणः पर्यवगुणः गणनागुणः करणगुणः अभ्यासगुणः गुणागुणः अगुणगुणः भवगुणः शीलगुणः भावगुणश्चेति गाथासमासार्थः ॥ तदेवं सूत्रानुगमेन सूत्रे समुच्चरिते निक्षेपनिर्युक्त्यनुगमेन तदवयवे निक्षिप्ते सत्युपोद्घातनियुक्तरवसरः, सा च "उद्देसे'त्यादिना द्वारगाथाद्वयेनानुगन्तव्या। साम्प्रतं सूत्रस्पर्शिकनियुक्तेरवसरः, तत्रापि सुगमनामस्थापनाव्युदासेन द्रव्यादिकमाह CASS ॥ ४ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy