SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ROSESSASSADSAUR रग्रन्थः । इदानीमाजातिः, आजायन्ते तस्यामित्याजातिः, साऽपि चतुर्द्धा, व्यतिरिक्ता मनुष्यादिजातिः, भावाजातिस्तु ज्ञानाद्याचारप्रसूतिरयमेव ग्रन्थ इति । इदानीमामोक्षः, आमुच्यन्तेऽस्मिन्नित्यामोक्षणं वाऽऽमोक्षो, नामादिः, तत्र व्यतिरिक्तो निगडादेः, भावामोक्षः काष्टकोद्वेष्टनमशेषमेतत्साधकश्चायमेवाचार इति । एते किञ्चिद्विशेषादेकमेवार्थ विशिंषन्तः प्रवर्त्तन्त इत्येकार्थिकाः, शक्रपुरन्दरादिवत् , एकार्थाभिधायिनां च छन्दश्चितिबन्धानुलोम्यादिप्रतिपत्त्यर्थमुद्घट्टनम् , उक्तं च-"बंधाणुलोमया खलु सत्थंमि य लाघवं असम्मोहो । संतगुणदीवणाविय एगहगुणा हवंतेए ॥१॥" ॥७॥ इदानीं प्रवर्त्तनाद्वारं, कदा पुनर्भगवताऽऽचारः प्रणीत इत्यत आह सब्वेसिं आयारो तित्थस्स पवत्तणे पढमयाए । सेसाई अंगाई एक्कारस आणुपुचीए ॥८॥ __ सर्वेषां तीर्थकराणां तीर्थप्रवर्तनादावाचारार्थः प्रथमतयाऽभवद्भवति भविष्यति च, ततः शेषाङ्गार्थ इति, गणधरा अप्यनयैवानुपूर्व्या सूत्रतया प्रश्नन्तीति ॥८॥ इदानी प्रथमत्वे हेतुमाह __ आयारो अंगाणं पढमं अंगं दुवालसण्हंपि । इत्थ य मोक्खोवाओ एस य सारो पवयणस्स ॥९॥ । __ अयमाचारो द्वादशानामप्यङ्गानां प्रथममङ्गमित्यनूद्य कारणमाह-यतोऽत्र मोक्षोपायः-चरणकरणं प्रतिपाद्यते, एष च प्रवचनस्य सार प्रधानमोक्षहेतुप्रतिपादनाद्, अत्र च स्थितस्य शेषाङ्गाध्ययनयोग्यत्वाद् अस्य प्रथमतयोपन्यास इति॥९॥ इदानी गणिद्वारं, साधुवर्गो गुणगणो वा गणः सोऽस्यास्तीति गणी, आचारायत्तं च गणित्वमिति प्रदर्शयन्नाह १ बन्धानुलोमता खळु शास्त्रे च लाघवमसंमोहः । सद्गुणदीपनमपि च एकार्थगुणा भवन्त्येते ॥१॥ dan Education International For Personal & Private Use Only www.janelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy