________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥६९॥
RESEARCH SEARCASSASA
मंसाईपरिभोगो सत्थं सत्थाइयं अणेगविहं । सारीरमाणसा वेयणा य दुविहा बहुविहा य ॥१६०॥ दारं ॥४॥ अध्ययन | मांसचर्मकेशरोमनखपिच्छदन्तस्नायवस्थिविषाणादिभिस्त्रसजीवसम्बन्धिभिरुपभोगो भवति, शस्त्रं पुनः 'शस्त्रादिक
उद्देशक |मिति' (शस्त्रं) खड्गतोमरक्षुरिकादि तदादिर्यस्य जलानलादेस्तच्छस्त्रादिकमनेकविधं-स्वकायपरकायोभयद्रव्यभावभेदभिन्नमनेकप्रकारं त्रसकायस्येति, वेदना चात्र प्रसङ्गेनोच्यते-सा च शरीरसमुत्था मनःसमुत्था च द्विविधा यथासम्भवं, तत्राद्या शल्यशलाकादिभेदजनिता, इतरा प्रियविप्रयोगाप्रियसम्प्रयोगादिकृता, बहुविधा च ज्वरातीसारकासश्वासभगन्दरशिरोरोगशूलगुदकीलकादिसमुत्था तीब्रेति ॥ पुनरप्युपभोगप्रपञ्चाभिधित्सयाऽऽह
मंसस्स केइ अट्ठा केइ चम्मस्स केइ रोमाणं । पिच्छाणं पुच्छाणं दंताणऽट्ठा वहिजंति ॥ १६१॥
केई वहंति अट्ठा केइ अणट्ठा पसंगदोसेणं । कम्मपसंगपसत्ता बंधंति वहति मारंति ॥ १२ ॥ मांसाथै मृगशूकरादयो वध्यन्ते, चर्मार्थ चित्रकादयः, रोमार्थ मूषिकादयः, पिच्छार्थ मयूरगृद्धकपिञ्चुरुदुकादयः, पुच्छार्थं चमर्यादयः, दन्तार्थ वारणवराहादयः, वध्यन्त इति सर्वत्र सम्बध्यते इति ॥ तत्र केचन पूर्वोक्तप्रयोजनमुद्दिश्य घ्नन्ति, केचित्तु प्रयोजनमन्तरेणापि क्रीडया नन्ति, तथा परे प्रसङ्गदोषात् मृगलक्षक्षिप्तेषुलेलुकादिना तदन्तरालव्यवस्थिता अनेके कपोतकपिञ्जलशुकसारिकादयो हन्यन्ते, तथा कर्म-कृष्याद्यनेकप्रकारं तस्य प्रसङ्गः-अनुष्ठानं तत्र प्रसक्ताः-सन्निष्ठाः सन्तस्त्रसकायिकान् बहून् नन्ति रज्ज्वादिना, नन्ति-कशलकुटादिभिः ताडयन्ति, मारयन्तिप्राणैर्वियोजयन्तीति ॥ एवं विधानादिद्वारकलापमुपवर्ण्य सकलनियुक्त्यर्थोपसंहारायाह
६९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org