SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ दिसत्पुरुषाणामुत्पत्तिः, तथा शङ्खावर्त्ता, सा च स्त्रीरत्नस्यैव तस्यां च प्राणिनां सम्भवोऽस्ति न निष्पत्तिः, तथा वंशीपत्रा, सा च प्राकृतजनस्येति, तथाऽपरं त्रैविध्यं निर्युक्तिकृद्दर्शयति - तद्यथा - अण्डजाः पोतजाः जरायुजाश्चेति, तत्राण्डजाः पक्ष्यादयः, पोतजाः वल्गुलीगजकलभकादयः, जरायुजा गोमहिषीमनुष्यादयः, तथा द्वित्रिचतुःपञ्चेन्द्रियभेदाच्च भिद्यन्ते, एवमेते सास्त्रिविधयोन्यादिभेदेन प्ररूपिताः, एतद्योनिसङ्ग्राहिण्यौ च गाथे- 'पुढे विदगअगणिमास्यपत्तेयनिओयजीवजोणीणं । सत्तग सत्ता सत्तग सत्तग दस चोदस य लक्खा ॥ १ ॥ विगलिंदिए दो दो चउरो चउरो य नारयसुरेसु । तिरियाण होन्ति चउरो चोदस मणुआण लक्खाई ॥ २ ॥ एवमेते चतुरशीतियोनिलक्षा भवन्ति, तथा कुलपरिमाणं 'कुलेकोडिसयसहस्सा बत्तीसहनव य पणवीसा । एगिंदियबिति इंदिय चउरिंदि यह रियकायाणं ॥ १ ॥ अद्धत्तेरस बारस दस दस नव चेव कोडिलक्खाईं । जलयर पक्खिचउप्पय उरभुयपरिसप्पजीवाणं ॥ २ ॥ पणुवीसं छव्वीसं च सयसहस्साई नारयसुराणं । बारस य सयसहस्सा कुलकोडीणं मणुस्साणं ॥ ३ ॥ एगा कोडाकोडी सत्ताणउतिं च सयसहस्साईं । पञ्चासं च सहस्सा कुलकोडीणं मुणेयब्वा ॥ ४ ॥ अङ्कतोऽपि १९७५००००००००००० सकलकुलसङ्ग्रहोऽयं बोद्धव्य इति । उक्ता परूपणा, तदनन्तरं लक्षणद्वारमाह 1 १ पृथ्व्युदकाग्निमारुतप्रत्येकनिगोदजीवयोनीनाम् । सप्त सप्त सप्त सप्त दश चतुर्दश च लक्षाः ॥ १ ॥ विकलेन्द्रियेषु द्वे द्वे चतस्रश्चतस्त्रश्च नारकसुरयोः । तिरथां भवन्ति चतस्रश्चतुर्दश मनुष्याणां लक्षाः ॥ २ ॥ २ कुलकोटिशतसहस्राणि द्वात्रिंशत् अष्टाष्टनव च पञ्चविंशतिः । एकेन्द्रियद्वित्रीन्द्रियचतुरिन्द्रियहरितकायानाम् ॥ १ ॥ अर्धत्रयोदश द्वादश दश दश नव चैव कोटीलक्षाः । जलचरपक्षिचतुष्पदोरोभुजपरिसर्पजीवानाम् ॥२॥ पञ्चविंशतिः षड्विंशतिश्च शतसहस्राणि नारकसुरयोः । द्वादश च शतसहस्राणि कुलकोटीनां मनुष्याणाम् ॥ ३ ॥ एका कोटीकोटी सप्तनवतिश्च शतसहस्राणि । पञ्चाशब्च सहस्राणि कुलकोटीनां मुणितव्यानि ॥ ४ ॥ ३ सत्तह य नव य अट्ठवीसं च । बेइन्दियतेइन्दिय. प्र. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy