SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ६६ ॥ पुष्पफलाद्युपचयाद्विपरिणामधर्मकम् । एवमनन्तरोक्तधर्मकलाप सद्भावादसंशयं गृहाणैतत् - सचेतनास्तरव इति ॥ एवं वनस्पतेश्चैतन्यं प्रदर्श्य तदारम्भे बन्धं तत्परिहाररूपविरत्यासेवनेन च मुनित्वं प्रतिपादयन्नुपसञ्जिहीर्षुराह— एत्थ सत्थं समारभमाणस्स इच्छेते आरंभा अपरिण्णाता भवति, एत्थ सत्थं असमारभमाणस्स इच्चे आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी णेव सयं वणसइत्थं समारंभेजा णेवण्णेहिं वणस्सइसत्थं समारंभावेजा णेवण्णे वणस्सइसत्थं समारंभंते समणुजाणेज्जा, जस्सेते वणस्सतिसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे (सू० ४७ ) त्ति बेमि ॥ पञ्चम उद्देशकः समाप्तः ॥ 'एतस्मिन् ' वनस्पतौ शस्त्रं द्रव्यभावाख्यमारभमाणस्येत्येते आरम्भा अपरिज्ञाता - अप्रत्याख्याता भवन्ति, एतस्मिंश्च वनस्पतौ शस्त्रमसमारभमाणस्येत्येते आरम्भाः परिज्ञाताः - प्रत्याख्याता भवन्तीति पूर्ववच्चर्चः, यावत् स एव मुनिः परिज्ञातकर्मेति ब्रवीमि पूर्व्ववदिति । शस्त्रपरिज्ञाध्ययने पञ्चमोदेशकटीका परिसमाप्तेति । उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठः समारभ्यते - अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके वनस्पतिकायः प्रतिपादितः, तदनन्तरं च त्रसकायस्यागमे परिपठितत्वात् तत्स्वरूपाधिगमायायमुद्देशकः समारभ्यते, तस्य चोपक्रमादीनि चत्वार्य Jain Education International For Personal & Private Use Only अध्ययन १ उद्देशकः ५ ॥ ६६ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy