________________
श्रीआचाराङ्गवृत्तिः (शी०)
अध्ययन उद्देशका ५
॥६३॥
द्रव्याणां वा हंसकारण्डवचक्रवाकादीनां व्योनि क्रीडतामावर्तनादावर्तः, करणे तु तेनैव जलद्रव्येण भ्रमता यदन्यदावर्त्तते तृणकलिञ्चादि स द्रव्येणावतः, तथा त्रपुसीसकलोहरजतसुवर्णैरावर्त्यमानैर्यदन्यत्तदन्तःपात्यावर्त्यते स द्रव्यैरावर्त्तत इति, अधिकरणविवक्षायामेकस्मिन् जलद्रव्ये आवर्तस्तथा रजतसुवर्णरीतिकात्रपुसीसकेष्वेकस्थीकृतेषु बहुषु द्रव्येष्वावर्त्तः, भावावर्तो नामान्योऽन्यभावसङ्क्रान्तिः, औदयिकभावोदयाद्वा नरकादिगतिचतुष्टयेऽसुमानावर्त्तते, इह च भावावर्तेनाधिकारो न शेषैरिति ॥ अथ य एते गुणाः संसारावर्त्तकारणभूताः शब्दादयो वनस्पतेरभिनिवृत्तास्ते किं नियतदिग्देशभाजः उत सर्वदिक्षु इत्यत आह
उहुं अहं तिरियं पाईणं पासमाणे रूवाइं पासति, सुणमाणे सद्दाइं सुणेति, उहुं अहं
पाईणं मुच्छमाणे रूवेसु मुच्छति, सद्देसु आवि (सू० ४१) प्रज्ञापकदिगङ्गीकरणादूर्द्धदिग्व्यवस्थितं रूपगुणं पश्यति प्रासादतलहादिषु, 'अध'मित्यवाड् अधस्तात् गिरिशिखरप्रासादाधिरूढोऽधोव्यवस्थितं रूपगुणं पश्यति, अधःशब्दार्थे अवाडिन्त्ययं वर्तते, गृहभित्त्यादिव्यवस्थितं रूपगुणं तिर्यक् पश्यति, तिर्यक्शब्देन चात्र दिशोऽनुदिशश्च परिगृह्यन्ते, ताश्चेमाः–'प्राचीन मिति पूर्वा दिग्, एतच्चोपलक्षणम् , अन्या अप्येतदाद्यास्तिर्यग्दिशो द्रष्टव्या इति, एतासु दिक्षु पश्यन् चक्षुर्ज्ञानपरिणतो रूपादिद्रव्याणि चक्षुाह्यतया परिणतानि पश्यति-उपलभत इत्यर्थः, तथा तासु च शृण्वन् शृणोति शब्दानुपयुक्तः श्रोत्रेण नान्यथेति ॥ अत्रोपलब्धिमात्र
॥ ६३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org