SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीआचा- राङ्गवृत्तिः| • (शी०) रए'त्ति एतस्मिन्नेव जैनेन्द्रे प्रवचने परमार्थत उपरतो नान्यत्र, यथाप्रतिज्ञातनिरवद्यानुष्ठायित्वादुपरतव्यपदेश अध्ययनं १ भाग् भवति न शेषाः शाक्यादयः, तद्विपरीतत्वाद् , एष एव च सम्पूर्णानगारव्यपदेशमश्नुते इति दर्शयति-'एस|5 अणगारेत्ति पवुच्चई' 'एषः' अतिक्रान्तसूत्रार्थव्यवस्थितोऽविद्यमानागारोऽनगारः प्रकर्षेण उच्यते प्रोच्यते इति, कि उद्देशकः५ कृतः प्रकर्षः ?, अनगारव्यपदेशकारणभूतगुणकलापसम्बन्धकृतः प्रकर्षः, इतिशब्दोऽनगारव्यपदेशकारणपरिसमाप्तिद्योती, एतावदनगारलक्षणं नान्यदिति, ये पुनः प्रोज्झितपारमार्थिकानगारगुणाः शब्दादीन्विषयानङ्गीकृत्य प्रवर्त्तन्ते ते तु नापेक्षन्ते वनस्पतीन् जीवान् , यतो भूयांसः शब्दादयो गुणा वनस्पतिभ्य एव निष्पद्यन्ते, शब्दादिगुणेष्वेव वर्तमाना रागद्वेषविषमविषविघूर्णमानलोललोचना नरकादिचतुर्विधगत्यन्तःपातिनो बोद्धव्याः, तदन्तःपातिन एव च शब्दादिविषयाभिष्वङ्गिणो भवन्तीति ॥ अस्यार्थस्य प्रसिद्धये गतप्रत्यागतलक्षणमितरेतरावधारणफलं सूत्रमाह जे गुणे से आवट्टे जे आवटे से गुणे (सू०४०) | यो 'गुणः' शब्दादिकः स आवतः, आवर्तन्ते-परिभ्रमन्ति प्राणिनो यत्र स आवतः-संसारः, इह च कारणमेव कार्यत्वेन व्यपदिश्यते यथा नड्डलोदकं पादरोगः, एवं य एते शब्दादयो गुणाः स आवतः, तत्कारणत्वात्, अथवै-5 कवचनोपादानात्पुरुषोऽभिसम्बध्यते, यः शब्दादिगुणे वर्त्तते स आवर्ते वर्तते, यश्चावर्ते वर्त्तते स गुणे वर्तत इति, अत्र कश्चिच्चोद्यचञ्चुराह-यो गुणेषु वर्त्तते स आवर्ते वर्तत इति साधु, यः पुनरावर्ते वर्तते नासौ नियमत एव ॥२॥ गुणेषु वर्तते, यस्मात्साधवो वर्तन्त आवर्ते न गुणेषु तदेतत्कथमिति, अत्रोच्यते, सत्यम् , आवर्ते यतयो वर्तन्ते न गुणेषु,8 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy