SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) A- अध्ययन उद्देशक:५ ॥ ५९॥ पत्रतयाऽपीति, एकजीवकर्तृके मूलपत्रे इतियावत्, प्रथमपत्रकं च याऽसौ बीजस्य समुच्छूनावस्था भूजलकालापेक्षा सैवो-| च्यत इति, नियमप्रदर्शनमेतत् , शेषं तु किशलयादि सकलं न मूलजीवपरिणामाविर्भावितमेवेत्यवगन्तव्यमिति ॥ यत उक्तम्-“सब्बोऽवि किसलओ खलु उग्गममाणो अणन्तओ भणिओ"इत्यादि॥तथाऽपरं साधारणलक्षणमभिधित्सुराह चक्कागं भजमाणस्स गंठी चुण्णघणो भवे । पुढविसरिसभेएणं अणंतजीवं वियाणेहि ॥१३९॥ यस्य मूलकन्दत्वपत्रपुष्पफलादेर्भज्यमानस्य चक्रकं भवति, चक्राकारः समच्छेदो भङ्गो भवतीतियावत्, यस्य च ग्रन्थिः-पर्व भङ्गस्थानं वा 'चूर्णेन' रजसा 'धनो' व्याप्तो भवति, यो वा भिद्यमानो वनस्पतिः पृथिवीसदृशेन भेदेन केदारोपरिशुष्कतरिकावत् पुटभेदेन भिद्यते, तमनन्तकायं विजानीहि ॥ तथा लक्षणान्तरमाह गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जं पुण पणट्ठसंधिय अणंतजीवं वियाणाहि ॥१४०॥ सष्टार्था ॥ एवं साधारणजीवान् लक्षणतः प्रतिपाद्य सम्प्रति नामग्राहमनन्तान् वनस्पतीन् दर्शयितुमाहसेवालकत्थभाणियअवए पणए य किंनए य हढे । एए अणंतजीवा भणिया अण्णे अणेगविहा ॥ १४१॥ सेवालकत्थभाणिकाऽवकपनककिण्वहठादयोऽनन्तजीवा गदिता अनेकप्रकाराश्चान्येऽपीत्थमवगन्तव्या इति ॥ सम्प्रति प्रत्येकतरूणामेकादिजीवपरिगृहीतशरीरदृश्यत्वं प्रतिपिपादयिषयाहएगस्स दुण्ह तिण्ह व संखिज्जाण व तहा असंखाणं । पत्तेयसरीराणं दीसंति सरीरसंघाया ॥१४२ ॥ १ सर्वोऽपि किशलयः खलद्रच्छन्ननन्तको भणितः. ॥ ५९॥ in Education International For Personal & Private Use Only www.janelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy