________________
श्रीआचा राङ्गवृत्तिः
(शी०)
॥ ५८ ॥
बदरतेजस्कायपर्याप्तकराशेरसङ्घयेयगुणाः, ये पुनरपर्याप्तकाः प्रत्येकतरुजन्तवः ते ह्यसङ्घयेयानां लोकानां यावन्तः प्रदेशास्तावन्त इति, एतेऽप्यपर्याप्तका बादरतेजस्कायजीवरा शेरसङ्घ चेयगुणाः, सूक्ष्मास्तु वनस्पतयः प्रत्येकशरीरिणः प र्याप्तका अपर्याप्तका वा न सन्त्येव, साधारणास्त्वनन्ता इति विशेषानुपादानात् ?, साधारणाः सूक्ष्मबादरपर्याप्तकापर्यासकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशास्तावन्त इति, अयं तु विशेषः - साधारणवादरपर्याप्तकेभ्यो बादरा अपर्याप्तका असंख्येयगुणाः वादरापर्याप्तकेभ्यः सूक्ष्माः अपर्याप्तका असङ्घयेयगुणास्तेभ्योऽपि सूक्ष्माः पर्याप्तकाः असङ्घयेयगुणा इति ॥ सम्प्रत्येषां तरूणां यो जीवत्वं नेच्छति तं प्रति जीवत्वप्रतिपादनेच्छया निर्युक्तिकृदाहएएहिं सरीरेहिं पञ्चक्खं ते परूविया जीवा । सेसा आणागिज्झा चक्खुणा जे न दीसंति ॥ १३५ ॥ 'एतैः ' पूर्वप्रतिपादितैस्तरुशरीरैः प्रत्यक्षप्रमाणविषयैः 'प्रत्यक्षं' साक्षात् 'ते' वनस्पतिजीवाः 'प्ररूपिताः' प्रसाधिताः, तथाहि न ह्येतानि शरीराणि जीवव्यापारमन्तरेणैवंविधाकारभाजि भवन्ति, तथा च प्रयोगः - जीवशरीराणि वृक्षाः, अक्षाद्युपलब्धिभावात्, पाण्यादिसङ्घातवत्, तथा कदाचित् सचित्ता अपि वृक्षाः, जीवशरीरत्वात्, पाण्यादिसङ्घातवदेव, तथा मन्दविज्ञानसुखादिमन्तस्तरवः, अव्यक्तचेतनानुगतत्वात्, सुप्तादिपुरुषवत्, तथा चोक्तम् - " वृक्षादयोऽक्षाद्युपलब्धिभावात्याण्यादिसङ्घातवदेव देहाः । तद्वत्सजीवा अपि देहतायाः, सुप्तादिवत् ज्ञानसुखादिमन्तः ॥ १ ॥” 'शेषा' इति सूक्ष्मास्ते च चक्षुषा नोपलभ्यन्त इत्याज्ञया ग्राह्या इति, आज्ञा च भगवद्वचनमवितथमरक्तद्विष्टप्रणीतमिति श्रद्धातव्यमिति ॥ साम्प्रतं साधारणलक्षणमभिधित्सुराह
Jain Education International
For Personal & Private Use Only
अध्ययनं १ उद्देशकः५
।। ५८ ।।
www.jainelibrary.org