________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ ५२ ॥
पडुप्पन्नवणस्सइकाइयाणं नत्थि निल्लेवणा' तथा शरीरोच्छ्रयाच्च दीर्घो वनस्पतिः 'वणस्संइकाइयाणं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ?, गोयमा ! साइरेगं जोयणसहस्सं सरीरोगाहणा' न तथाऽन्येषामेकेन्द्रियाणाम्, अतः स्थितमेतत् सर्वथा दीर्घलोको वनस्पतिरिति, अस्य च शस्त्रमग्निः, यस्मात्स हि प्रवृद्धज्वालाकलापाकुलः सकलतरुगणप्रध्वंसनाय प्रभवति, अतोऽसौ तदुत्सादकत्वाच्छत्रं, ननु च सर्वलोकप्रसिद्ध्या कस्मादग्निरेव नोक्तः, किं वा प्रयोजनमुररीकृत्योक्तं दीर्घलोकशस्त्रमिति, अत्रोच्यते, प्रेक्षापूर्वकारितया, न निरभिप्रायमेतत्कृतमिति, यस्मादयमुत्पाद्यमानो ज्वाल्यमानो वा हव्यवाहः समस्तभूतग्रामघाताय प्रवर्त्तते, वनस्पतिदाहप्रवृत्तस्तु बहुविधसत्त्वसंहतिविनाशकारी विशेषतः स्यात् यतो वनस्पतौ कृमिपिपीलिका भ्रमरकपोतश्वापदादयः सम्भवन्ति, तथा पृथिव्यपि तरुकोटरव्यवस्थिता स्यात्, आपोऽप्यवश्यायरूपाः, वायुरपीषच्चञ्चल स्वभावकोमलकिशलयानुसारी सम्भाव्यते, तदेवमग्निसमारम्भप्रवृत्तः एतावतो जीवान्नाशयति, अस्यार्थस्य सूचनाय दीर्घलोकशस्त्रग्रहणमकरोत् सूत्रकार इति, तथा चोक्तम् — “जांयतेयं न इच्छन्ति, पावगं जलइत्तए । तिक्खमन्नयरंसत्थं, सव्वओऽवि दुरासयं ॥ १ ॥ पाईणं पडिणं वावि, उहुं अणुदिसामवि । अहे दाहिणओ वावि, दहे उत्तरओऽवि य ॥ २ ॥ भूयाणमसमाघाओ, हव्ववाहो न संसओ । तं पईवपयावडा,
१ वनस्पतिकायिकानां भदन्त ! का महती शरीरावगाहना प्रज्ञप्ता ?, गौतम । सातिरेकं योजनसहस्रं शरीरावगाहना २ जाततेजसं नेच्छन्ति पावकं ज्वलयितुम् । तीक्ष्णमन्यतरत् शस्त्रं सर्वतोऽपि दुराश्रयम् ॥ १ ॥ प्राचीनं प्रतीचीनं वापि ऊर्ध्वमनुदिक्ष्वपि । अधो दक्षिणतो वापि दहति उत्तरतोऽपि च ॥२॥ भूतानामेष आघातो हव्यवाही न संशयः । तत् प्रदीपप्रतापार्थे संयतः किञ्चिन्नारभेत ॥ ३ ॥
Jain Education International
For Personal & Private Use Only
अध्ययनं १ उद्देशकः ४
॥ ५२ ॥
www.jainelibrary.org