SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ .IN श्रीतचार्थ हरि० ९अध्या० धर्मध्यानस्वामी NA बुद्धीर्वा ॥१॥ चारणवैक्रियसर्वोषधताद्या वाऽपि लब्धयस्तस्य । प्रादुर्भवंति गुणतो बलानि वा मानसादीनि ॥२॥" अत्र च श्रेणिप्रा. यभिमुखः प्रथमकषायान् दृष्टिमोहत्रयं वा, यतः सम्यग्दृष्टिदेशविरताप्रमत्तसंयतानामन्यतमः उपशमश्रेण्याभिमुख्यादुपशमयति, क्षपकक्षेण्यभिमुखः क्षपयति, यथोकं-"क्षपयति तेन ध्यानेन ततोऽनन्तानुबंधिनश्चतुरः। मिथ्यात्वं सम्मिश्रं सम्यक्त्वं च क्रमेण | ततः ॥११॥ क्षीयंते हि कषायाः प्रथमास्त्रिविधोऽपि दृष्टिमोहश्च" इत्यादि ॥ किंचान्यदित्यनेन स्वाम्यन्तरं संबध्नाति, उपशान्तक्षीणकषाययोश्च ॥९-३८ ॥ सूत्रम् ।। चशब्दः समुच्चये, कषायशब्दः प्रत्येकमभिसंबध्यते,उपशान्ताः कषाया यस्यासावुपशान्तकषायः, एकादशगुणस्थानवर्ती, क्षीणः कषायो यस्य स क्षीणकषायः, भस्मन्छन्नाग्निवदुपशान्तः, निरवशेषतः परिशाटिताः क्षीणाः विध्यातहुताशनवद् , अनयोश्च उपशान्तक्षीणकषाययोरप्रमत्तसंयतस्य च धर्मध्यानं भवति, तत्रोपशान्तक्षीणकषायस्वरूपविज्ञानाय अधस्तनं गुणस्थानत्रयमवश्यंतया प्ररूपणीयं, अन्यथा तदज्ञातमेव स्यादिति, अप्रमत्तस्थानादसंख्येयानि विशोधिस्थानानि आरुह्यापूर्वकरणं प्रविशति, समये समये स्थितिघातरसघातस्थितिबंधगुणश्रेणीगुणसंक्रमाणामेवापूर्व करणं, अप्राप्तपूर्वकत्वाद्वा संसारे तदपूर्वकरणं, न तत्र कस्याश्चिदपि कर्मप्रकृतेरुपशमनं क्षयो वा, उपशमनाभिमुखात्तत्पुरस्कारादुपशमकः क्षपणार्हत्वाच्च क्षपक इति, उक्तं च-"स ततः क्षपकश्रेणी. प्रतिपद्य चरित्रघातिनिःशेषाः। क्षपयन् मोहप्रकृतीः प्रतिष्ठते शुद्धलेश्याकः।।१।। प्रविशत्यपूर्वकरणं प्रस्थित एवं ततः परं स्थानम्। तदपूर्वकरणमिष्टं कदाचिदप्राप्तपूर्वत्वात् ॥२॥ ततोऽप्युत्तरोत्तरविशोधिस्थानप्राप्त्या अनिवृत्तयः, परस्परतुल्यवृत्तय इत्यर्थः,सम्परायाः-कपायास्तदुदयो बादरो येषां ते बादरसंपरायाः,अनिवृत्तयश्च बादरसंपरायाश्चेत्यर्थः,ते उपशमकाः क्षपकाश्च,तेषां धर्मध्यानं भवति,उपशान्तक्षीणकपाय Sta ॥४९५॥ ॥४९५|| Salary Jan Education International For Personal & Private Use Only swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy