________________
16 ile
उत्तराध्ययन
सूत्रम् ६५३
Iol
Ioll
।। अथ ब्रह्मचर्य समाधिस्थानानिनाम षोडशमध्ययनम् ।।
॥ ब्रह्मचर्यसमाधि
il स्थानानिनाम ||l ।। ॐ ।। व्याख्यातं पञ्चदशमध्ययनमथषोडशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने भिक्षुगुणा उक्तास्ते च तत्वतो ॥
is षोडशकि ब्रह्मचर्यस्थितस्य भवन्ति, तदपि ब्रह्मगुप्तिज्ञानेनेति ता इहाभिधीयन्ते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्येदमादिसूत्रम् -
Islil
|| मध्ययनम् Hal सुअं मे आउसंतेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहिं दस बंभचेरसमाहिट्ठाणा पण्णत्ता, जे भिक्खू सोचा है
॥ निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिंदिए गुत्तबंभयारी सया अप्पमत्ते विहरिज्जा ।।१।। M व्याख्या - सुधर्मा स्वामी जम्बूनामानमाह-श्रुतं मया हे आयुष्मन् ! तेन भगवता ज्ञातकुलजलधिचन्द्रेण श्रीवर्द्धमानजिनेन्द्रेण एवमाख्यातं । is कथितं, कथमित्याह-सोपस्कारत्वात्सूत्रस्यात्र यथेति गम्यते, ततो यथेह प्रवचने खलु निश्चये स्थविरैर्गणधरादिभिर्भगवद्भिर्दशा is ब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, अयं भाव:-नैषां स्थविराणामियं स्वमनीषिका किन्तु भगवताप्येतदेवमेवाख्यातं मया श्रुतं, ततोऽत्र - माऽनास्थां कृथाः । ब्रह्मचर्यसमाधिस्थानान्येवं विशिनष्टि, 'ये' इति यानि भिक्षुः श्रुत्वाऽऽकर्ण्य निशम्यार्थतोवधार्य 'संजमबहुलेत्ति' ॥ प्राकृतत्वाद्वहुल: प्रचुर उत्तरोत्तरस्थानावाप्त्या संयमोऽस्येति बहुलसंयमः, अत एव बहुल: संवर आश्रवद्वारनिरोधरूपोऽस्येति बहुलसंवरः, अत Mal IN एव बहुलसमाधिः तत्र समाधिर्मन:स्वास्थ्यं, गुप्तो मनोवाक्कायैस्तत एव च गुप्तेन्द्रियः, तत एव च गुप्तं नवगुप्तिसेवनाद् ब्रह्मेति ब्रह्मचर्य चरितुं l I शीलमस्येति गुप्तब्रह्मचारी, सदा अप्रमत्तो विहरेदिति सूत्रार्थः ।।१।।
M६५३
For Personal Private Use Only