SearchBrowseAboutContactDonate
Page Preview
Page 1262
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १२२० FTTTTTTTTTTTSSSSSSTTTTTTTTTTTTTT जिणवणे अणुरत्ता, जिणवयणं जे करिंति भावेणं । अमला असंकिलिट्ठा, ते होंति परित्तसंसारी ।। २५८ ।। व्याख्या – 'अमलत्ति' श्रद्धामालिन्यहेतुमिथ्यात्वादिभावमलरहिताः, तथाऽसङ्क्लिष्टा रागादिसङ्क्लेशमुक्ताः 'परित्तसंसारित्ति' परित्तः परिमितः स चासौ संसारश्च परित्तसंसारः सोऽस्ति येषां ते परित्तसंसारिणः ।। २५८ । । बालमरणाणि बहुसो, अकाममरणाणि चेव बहुआणि । मरिहंति ते वराया, जिणवयणं जे न याणंति ।। २५९।। व्याख्या - • बालमरणैरुद्बन्धनादिनिबन्धनैर्बहुशो बहुवारं अकाममरणैश्चैवानिच्छारूपमरणैर्बहुभिः सुब्व्यत्ययः प्राकृतत्वात् मरिष्यन्ति ते वराका जिनवचनं ये न जानन्ति, उपलक्षणत्वान्नानुतिष्ठन्ति चेति सूत्रद्वयार्थः ।। २५९ ।। यतश्चैवमतो जिनवचनं भावतः कर्त्तव्यं, तत्र चातिचारसम्भवे आलोचना तच्छ्रवणयोग्यानां श्रावणीया, ते च यैर्हेतुभिर्भवन्ति तानाह - बहु आगमविण्णाणा, समाहिउप्पायगा य गुणगाही । एएण कारणेणं, अरिहा आलोअणं सोउं ।। २६० । व्याख्या - बहुः सूत्रतोऽर्थतश्च स चासावागमश्च बह्नागमस्तत्र विशिष्टं ज्ञानं येषां ते बह्नागमविज्ञानाः, समाधेरुत्पादका ये देशकालाभिप्रायादिविज्ञतया समाधिमेव मधुरवाक्यादिभिरालोचकानामुत्पादयन्ति चशब्दो भिन्नक्रमस्ततो गुणग्राहिणश्चोपबृंहणार्थं परेषां सद्भूतगुणग्रहणशीलाश्च, 'एएण कारणेणंति' एतैः कारणैः अर्हा भवन्त्याचार्यादय आलोचनां श्रोतुमिति सूत्रार्थ: ।। २६० ।। इत्थमनशनस्थेन यत्कृत्यं तदुपदर्श्य सम्प्रति पूर्वोद्दिष्टकन्दर्पादिभावनानां स्वरूपमाह Jain Education International For Personal & Private Use Only STILLEGAL FATATAS जीवाजीव विभक्तिनाम षटत्रिंश मध्ययनम् १२२० www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy